Google Search

Tuesday, February 21, 2012

श्रीशारदादेवीध्यानस्तोत्रम्


ध्यायेचित्तसरोजस्थां सुखीसानां कृपामयीम् ।
प्रसन्नवदनां देवीं द्विभुजा स्थिरलोचनाम् ।।

आलुलायितेकेशार्धवक्षःस्थलविमण्डिताम् ।
श्वेतवस्त्रावृतार्धाङ्गां हेमालंक्कारभूषिताम् ।।

स्वक्रोडन्यस्तहस्तां च ज्ञानभक्तिप्रदायीनीम् ।
शुभ्रांज्योतिर्मयीम् जीवपापसन्तापहारिणीम् ।।

रामकृष्णगतप्राणां तन्नामश्रवणप्रियाम् ।
तद्भावरञ्जिताकारां जगन्मातस्वरुपिणीम् ।।

जानकीराधिकारुपधारिणीं सर्वमङ्गळाम् ।
चिन्मयीं वरदां नित्यां शारदां मोक्षदायिनीम् ।।

यथाग्रेर्दाहिकाशक्ति रामकृष्णे स्थिता हिया ।
सर्वविद्यास्वरुपां तां शारदां प्रणम्याहम् ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.