Google Search

Tuesday, February 21, 2012

।। श्री दुर्गादेवीध्यानम् ।। (दुर्गापूजा)


ॐ जटाजूटसमायुक्तामर्धेन्दुकृत – शेखराम् ।
ळोचनत्रय – संयुक्तां पूर्णेन्दुसदृशाननाम् ।।

अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम्
नवयौवनसम्पन्नां सर्वाभरणभूषितां ।।

सुचारुदशनां तद्वत् पीनोन्नत – पयोधराम् ।
त्रिभङ्गस्थानस्थानां महिषासुरमर्दिनीम् ।।

मृणालायतसंस्पर्श – दशबाहु – समन्विताम् ।
त्रिशूलं दक्षिणे ध्येयं खड्गं चक्रं क्रमादधः ।।

तीक्ष्णबाणं तता शक्तिं दक्षिणेन विचिन्तयेत् ।
खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च ।।

घण्टां वा परशुं वापि वामतः सन्निवेशयेत् ।
अधस्तान्महिषम् तद्वद् विशिरस्कं प्रदर्शयेत् ।।

शिरच्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम् ।
ह्रदिशूलेन निर्भिन्नं निर्यदन्त्रविभूषितम् ।।

रक्तारक्तिकृताञ्च रक्तविस्फुटरितेक्षणम् ।
वेष्टितं नागपाशेन भ्रुकुटीभीषणाननाम् ।।

सपाशवाम हस्तेन धृतकेशञ्च दुर्गया ।
वमध्रुरधिरवक्त्रञ्च देव्याः सिहं प्रदर्शयेत् ।।

देव्यास्तु दक्षिणं पादं समं सिंहोपरिस्थितम् ।
किञ्चिदूर्ध्वं तथा वाममङ्गुष्ठं महिषोपरि ।।

(प्रसन्नवदनां देवीं सर्वकामफलप्रदाम्
शत्रुक्षयकरींदेवीं दैत्यदानवदर्पहाम् ।।)

स्तूयमानञ्च जदरुपंमरैः सन्निवेशयेत् ।

उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती चैव चण्डरुपाति चण्डिका ।।

आभिः शक्तिभिरष्टाभिः सततं परिवेष्टिताम् ।
चिन्तयेज्जगतां धात्रीं धर्मकामार्थ – मोक्षदाम् ।।
(बृहन्नन्दिकेश्वर पुराणम् )

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.