Google Search

Wednesday, February 22, 2012

श्रीविवेकानन्दपञ्चकम् - (स्वामी रामकृष्णानन्दः)

अनित्यदृश्येषु विविच्य नित्यं तस्मिन् समाधत्त इह स्म लीलया ।
विवेकवैराग्यविशुद्धिचित्तं योसौ विवेकी तमहं नमामि ।।

विवेकजानन्दनिमग्रचित्तं विवेकदानैकविनोदशीलम् ।
विवेकभासा कमनीयकान्तिं विवेकिनं तं सततं नमामि ।।

ऋतं च विज्ञानमधिश्रयद्यन्निरन्तरं चादिमद्यान्तहीनम् ।
सुखं सुरुपं प्रकरोति यस्य आनन्दमूर्ति तमहं नमामि ।।

सूर्यो यथान्धं हि तमो निहन्ति विष्णुर्यथा दुष्टजनांश्छिनत्ति ।
तथैव यस्याखिलनेत्रलोभं रुपं त्रितापं विमुखीकरोति ।।

तं देशिकेन्द्रं परमं पवित्रं विश्वस्य पालं मधुरं यतीन्द्रम् ।
हिताय नृणां नरमूर्तिमन्तं विवेक आनन्दमहं नमामि ।।

नमः श्रीयतिराजाय विवेकानन्दसूरये ।
सच्चित्सुखस्वरुपाय स्वामिने तापहारिणे ।।

।। श्रीः ।।
।। ॐ ह्रीं श्रीदुर्गायै देवतायै नमः ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.