Google Search

Wednesday, February 22, 2012

जगन्नाथाषटकम् -(श्री चैतन्यदेव कृतम्)


कदाचितकालिन्दीतटविपिनसंगीतकवरो
मुद्रा गोपीनारीवदनकमलात्वादमधुपः ।
रमाशंभुब्रह्मामरपतिगणेशार्चितपदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ।।

भुजे सव्ये वेणुं शिरसि शिखिपिच्छं कटितटे
दुकूलं नेत्रांते सहचरकटाक्षं विदधत् ।
सदा श्रीमद्वृन्दावनसतिलीलापरिचयो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ।।

महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे
        वसन् प्रसादान्तः सहजबलभद्रेण बलिना ।
सुभद्रामध्यस्थः सकलसुरसेवावसरदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ।।

कृपापारावारः सजलजलदश्रेणिरुचिरो
रमावाणीसोम स्फुरदमलपद्य्मोद्भवमुखे ।
सुरेन्द्रैराराध्यः श्रुतिगणशिखागीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ।।

रथारुढो गच्छन् पथि मिलितभूदेवपटिलैः
स्तुतिप्रादुर्भावं प्रतिपदुमपाकर्ण्य सदयः ।
दयासिन्दुर्बन्धुः सकलजगतां सिन्धुसुतया
जगन्नाथः स्वामी नयनपथगामी भवतु मे ।।

प्रबह्मापीडः कुवलयदलोत्फ्ल्ळनयनो
निवासी नीलाद्रो निहितचरणौनन्तशिरसि ।
रसानन्दो राधासरसवपुरालिंड्ग्नसुखो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ।।

न वै प्रार्थ्यं राज्यं न च कनकता भोगविभवे
न याचेहं रम्यां निखिलजनकाम्यां वरवधूम् ।
सदा काले काले प्रथमपतिना गीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ।।

हर त्वं संसारं द्रुरततरमसारं सुरपते
हर त्वं पापानां विततिमपरां यादवपते ।
अहो दीनानाथं निहितमचलं पातुमनिशं
जगन्नाथः स्वामी नयनपथगामी भवतु मे ।।

जगन्नाथाष्टकम् पुण्यं यः पठेत् प्रयतः शुचिः ।
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.