Google Search

Tuesday, February 21, 2012

श्री गङ्गास्तोत्रम्


(श्री शंकराचार्य कृतम्)

देवि सुरेश्वरि भगवति गङ्गे त्रिभुवनतारिणी तरलतरङ्गे ।
शंक्करमौलिविहीरिणी विमले मति रास्तां तवपद कमले ।।

भागीरथि सुखदायिनी मातस्तव जलमहिमा निगमे ख्यातः ।
नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ।।

हरिपदपाद्यतरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे ।
दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् ।।

तव जलममलं येन निपीतं खलु तेन गृहीतम् ।
मातर्गङ्गे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ।।

पतितोद्वारिणि जाह्नवि गङ्गे खण्डितगिरिवरमण्डितभङ्गे ।
भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवनधन्ये ।।

कल्पलताविम् फलदां लोके प्रणमति यतस्त्वां न पतति शोके ।
पारावारविहारिणी गङ्गे विमुखयुवतिकृततरवापाङ्गे ।।

तव चेन्माताः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः ।
नरकनिवारिणी जाह्नवि गङ्गे कलुषविनाशिनी महिमोतुङ्गे ।।

पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे ।
इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरणे ।।

रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम् ।
त्रिभुवनसारे वसुधाहारे त्वमसि गतिमर्म खलु संसारे ।।

अलकानन्दे परमानन्दे कुरु करुणामयि कातरवन्द्ये ।
तव तटनिकटे यस्य निवासः खलु बैकुण्ठे तस्य निवासः ।।

वरमिह नीरोकमठे मीनः किं ना तीरे शरटः क्षीणः ।
अथवा श्चपचो मलिनो दीनस्तव न हि दुरे नृपतिकुलीनः ।।

भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये ।
गङ्गास्तवमिममलं नित्यं पठति नरो यः स जयति सत्यम् ।।

येषा ह्रदये गङ्गाभक्तिस्तेषां भवति सदा सुखमुक्तिः ।
मधुराकान्तापज्झटिकाभिः परमानन्दकलित – ललिताभिः ।।

गङ्गास्तोत्रमिदं भवसारं वाञ्छितफलदं विमलं सारम् ।
शंक्करसेवक शंक्कररचितं पठति सुखी स्तव इति च समाप्तम् ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.