Google Search

Tuesday, February 21, 2012

शिवस्तोत्रम् - (स्वामी विवेकानन्दः)


निखिलभुवजन्मस्थेमभङ्गप्ररोहाः –
अकलितमहिमानः कल्पिता यत्र तस्मिन् ।
सुविमलगगनाभे ईशसंस्थेप्यनीशे –
मम भवन्तु भवेस्मिन् भासुरो भावबन्धः ।।

निहतनिखिलामोहधीशता यत्र रूढा –
प्रकटितपरप्रेम्ना यो महादेवसंज्ञः ।
अशिथिलप्ररम्भः प्रेमरुपस्य यस्य –
ह्रदि प्रणयति विश्वंव्याजमात्रं विभुत्वम् ।।

वहति विपुलवातः पूर्वसंस्काररुपः –
विदलति बलवृंदं घूर्णितेवोर्मिमाला ।
प्रचलति खलु युग्म् –
युष्मदस्मत्प्रतीत्मं अतिविकलिरुपं नौमि चित्तं शिवस्थम् ।।

जनकजनितभावो वृत्तयः संस्कृताश्च –
अगणनबहुरुपो यत्र चैको यथार्थः ।
शमितविकृतवाते यत्र नान्तर्बहिश्च –
तमहह हरमीडे चित्तवृत्तेर्निरोधम् ।।

गलिततिमिरमालः शुभ्रतेजः प्रकाशः –
धवलकमलशोभः ज्ञानपुञ्जाट्टहासः ।
यमिजनह्रदिगम्यो निष्कलो ध्यायमानः –
प्रणतमवतु मां सः मानसो राजहंसः ।।

दुरितदलनदक्षं दक्षजादत्तदोषं -
कल्पितकलिकलङ्क क्रमकह्र्वा – रकान्तम् ।
परहितकरणाय प्राणप्रच्छेदप्रीतं –
नतनयननियुक्तं नीलकण्ठं नमामः ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.