Google Search

Wednesday, February 22, 2012

श्रीवेंक्कटेशप्रपत्तिः


ईशानां जगतोस्य वेंक्कटपतेर्विष्णोः परां प्रेयसीं ।
तद्वक्षस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् ।
पद्य्मालंकृत् पाणिपल्ळनयुगां पद्य्मासन्स्थां श्रियं
वात्सल्यादिगुणोज्जवळां भगवतीं वन्दे जगन्मातरम् ।।

श्रीमन् कृपाजलनिधे कृतसर्वलोक ।
सर्वज्ञ शक्त नत्सवत्सल सर्वशेषिन् ।
स्वामिन् सुशील सुलभाश्रितपरिजात ।
श्री वेंक्कटेश चरणौ शरणं प्रपद्ये ।।

आनुपूरार्पितसुजातसुगन्धिपुष्प –
सौरभ्यसौरभकरो समसन्निभेषो ।
सौम्यौसदानुभवेपि नवानुभाव्यौ ।
श्री वेंक्कटेश चरणौ शरणं प्रपद्ये ।।

सद्योविकासिसमुदित्वरसान्द्ररागौ
सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् ।
सम्यक्षु साहसपदेषु विलेखयन्तौ ।
श्री वेंक्कटेश चरणौ शरणं प्रपद्ये ।।

रेखामयध्वजसुधाकलशातपत्र ।
वज्रांक्कुशाम्बुरुहकल्पशंख्खचक्रैः ।
भव्यैरलंकृततलौ परतत्वचिन्ह्मैः ।
श्री वेंक्कटेश चरणौ शरणं प्रपद्ये ।।

ताम्रोदरद्युतिपराजितपद्य्मरागौ ।
ब्राह्मैर्मभिरभि भूत महेन्द्रनालौ ।
उद्यन्नखांशुभिरुदस्त शशांक्कभासौ ।
श्री वेंक्कटेश चरणौ शरणं प्रपद्ये ।।

सप्रेमभीति कमालकरपल्लवाभ्यां ।
संवाहनेपि सपादि क्लममादधानौ ।
कान्ताववाङ्मन सगोचर सकुमार्यौ ।
श्री वेंक्कटेश चरणौ शरणं प्रपद्ये ।।

लक्ष्मीमहीतदनुरुनिजानुभाव ।
नीलादिदिव्यमहिषीकरपल्लवानाम् ।
आरुण्यसंक्रमणतः किल सान्द्ररागौ ।
श्री वेंक्कटेश चरणौ शरणं प्रपद्ये ।।

नित्यानमद्धिदिशिवादिकिरीटकोटि ।
प्रत्युप्तदीप्तनवरप्नमहप्ररोहैः ।
नीराजनाविधिमुदारमुपाददानौ ।
श्री वेंक्कटेश चरणौ शरणं प्रपद्ये ।।

विष्णोः पदे परम् इत्युदितप्रशंसौ
यौमध्व उत्स इति भोग्यतयाप्युपात्तौ ।
भूयस्थेति तव पाणितलप्रदिष्टौ ।
श्री वेंक्कटेश चरणौ शरणं प्रपद्ये ।।

पार्थाय तत्सदृशसारथिना त्वयैव ।
यौ दर्शितौ स्वचरणौ शरणं व्रजेति ।
भूयोपि मह्यमिह तौ करदर्शितौ ते ।
श्री वेंक्कटेश चरणौ शरणं प्रपद्ये ।।

मन्मूर्घ्नि कालियफणे विकटाटवीषु ।
श्रीवेक्कटाद्रिशिखरे शिरसि श्रुतीनाम् ।
चित्तेप्यनन्यमनसां सममाहितौ ते ।
श्री वेंक्कटेश चरणौ शरणं प्रपद्ये ।।

अम्लानह्ष्यदवतलकीर्णपुष्पौ
श्रीवेंक्कटाद्रिशिखराभरणायमानौ ।
आनन्दिताखिलमनोनयनौ तवेतौ ।
श्री वेंक्कटेश चरणौ शरणं प्रपद्ये ।।

प्रायः प्रपन्नजनताप्रथमावग्राह्यौ ।
मातुस्नाविव शिशोरमृतायमानौ ।
प्राप्तौ परस्परतुलान्तरौ ते ।
श्री वेंक्कटेश चरणौ शरणं प्रपद्ये ।।

सत्वोत्तरैरस्ततसेव्यपदाम्बुजेन ।
संसारताकदयार्द्रदृगञ्जलेन ।
सौम्योपयन्तृमुनिना मम दर्शितौ ते ।
श्री वेंक्कटेश चरणौ शरणं प्रपद्ये ।।

श्रीश श्रिया घटिकया त्वदुपायभावे ।
प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या ।
नित्याश्रिताय निरवद्यगुणाय तुभ्यं स्यां
किंक्करो वृषगिरीश न जातु मह्यम् ।।

।। इति श्रीवेंक्कटेशप्रपत्तिः

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.