Google Search

Monday, February 20, 2012

श्रीगणेशपञ्चरत्नम्


सरागलोक दुर्लभं विरागलोकपूजितम् । सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् ।
गिरागुरूं श्रियाहरिं जयन्ति यत्पदार्चकाः । नमामि  तं गणाधिपं कृपापयः पयानिधिम् ।।

गिरीन्द्रजामुखाम्बुज प्रमोददान भास्करम् । करीन्द्रवक्त्र मानताघ संघ वारणोद्योतम् ।
सरीसृपेशबद्धकुक्षिमाश्रियाम् सन्ततम् । शरीरकान्ति निर्जिताब्ध बन्धुबालसन्तितम् ।।

शुकादिमौनिवन्दितम् दकारवाच्यमक्षरम् । प्रकाममिष्टिदायनम् सकामनम्रपंक्तये ।
चकास तं चतुर्भुजैर्विकासपद्य्म पूजितम् । प्रकाशितात्मतत्वकं नमाम्यहं गणाधितम् ।।

नराधिपत्वदायकं स्वरादिलोकदायकम् । ज्वरादिरोगवारकं निराकृतासुरव्रजम् ।
कराम्वुजोल्ळसत्सृणिं विकारशून्यमानसैः । ह्रदा सदा विभावितं मुदा नमामि विघ्नम् ।।

श्रमापनोदनक्षमं समाहितान्तरात्नाम् । सुमादिभिस्सदार्चितं क्षमानिधिं गणाधिपम् ।
रमाधवादि पूजितं यमात्कात्मसम्भवम् । शमादि षङ्गुणप्रदं नमामि तं विभूतये ।।

गणाधिपस्य पञ्चकं नृणामभीष्टदायकम् । प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः ।
भवन्ति ते विदां पुरः प्रगीत वैभवा जवात् चिरायुषोधिक  श्रियस्सूनवोनसंशयः ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.