Google Search

Monday, February 20, 2012

श्री महागणेशपञ्चरत्नस्तोत्रम् ||


मुराकरात्त मोदकं सदा विमुक्तिसाधकम् । कलाधरावतंसकं विलासि लोकरक्षकम् ।
अनायकैक  नायकं विनाशितेभदैत्यकम् । नताशुभाशुनाशकं नमामि तं विनायकं ।।

नतेतरातिभीकरं नवोदितार्कभास्वरम् । नमत्सुरारि निर्जरं नताधिकादुद्वरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं । महेश्वरम् तमाश्रये परात्परम् निरन्तरम् ।।

समस्त लोकशंकरं निरस्तदैत्यकुञ्जरं । दरेतरोदरं वरं वरेभवक्त्रमक्षरम् 
कृपाकरं क्षमाकरं  मुदाकरं यशस्करम् । मनस्करम् नमस्कृतां नमस्करोमि भास्वरम् ।।

आकिञ्चनार्तिमार्जनं चिरन्तनोक्ति भाजनम् । पुरारिपूर्व नन्दनं सुरारि गर्वचर्वण्म् ।
प्रप्रञ्च नाशभीषणं धनञ्जयादि भुषणम् । कपोलदारवारणम् भजे पुराणवारणं ।।

नितान्तकान्तदन्तकान्ति –मन्तकान्तकात्मजम् । अचिन्त्यरूपमन्तहीन-मन्तरायकृन्तनम् ।
ह्रदन्तरे निरन्तरम् वसन्तमेव योगिनाम् । तमेकदन्तमेव तं विचिन्तयाम् सन्ततम् ।।

महागणेश पन्ञ्चरत्नमादरेण योन्वहम् । प्रजल्पति प्रभातके ह्रदि स्मरेण् गणेश्वरम् ।
अरोगितामदोषताम् सुसाहिता सुपुत्रताम् । समाहितायु-रष्टभूतिमभ्युपैति सोचिरात् ।।
(श्री शंकराचार्य कृतम)

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.