Google Search

Tuesday, February 21, 2012

मीनाक्षीपञ्चरत्नम्


(श्री शंकराचार्य कृतम्)

उद्यद्भानुसहस्र्कोटिसदृशां केयूरहारोज्ज्वलां ।
बिम्बोष्ठीं स्मितदन्तपंक्तिरुचिरां पीताम्बरालंकृताम् ।
विष्णुब्रह्मासेवितपदां तत्वस्वरुपां शिवां ।
मीनाक्षीं प्रणतोस्मि सन्ततमहं कारुण्यवारांनिधिम् ।।

मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभां ।
शिञ्जन्नूपुरकिंक्कणींमणीधरां पद्य्मप्रभाभासुराम् ।
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेविताम् ।
मीनाक्षीं प्रणतोस्मि सन्ततमहं कारुण्यवारांनिधिम् ।।

श्रीविद्यां शिववामभागनिलयां ह्रींकारमन्त्रोज्ज्वलां ।
श्रीचक्रांक्कितबिन्दुमध्यवसंति श्रीमत्सभानायिकाम् ।
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीम् ।
मीनाक्षीं प्रणतोस्मि सन्ततमहं कारुण्यवारांनिधिम् ।।

श्रीमत्सुन्दरनायिकां भयहरां ज्ञानप्रदां निर्मलां ।
श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।
वीणावेणुमृदंग वाद्यरसिकां नानाविधामम्बिकाम् ।
मीनाक्षीं प्रणतोस्मि सन्ततमहं कारुण्यवारांनिधिम् ।।

नानायोगीमुनीन्द्रह्रतसुवसतिं नानार्थसिद्धिप्रदां ।
नानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चिताम् ।
नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकाम् ।
मीनाक्षीं प्रणतोस्मि सन्ततमहं कारुण्यवारांनिधिम् ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.