Google Search

Tuesday, February 21, 2012

शिवमानसपूजा - (श्री शंकराचार्य कृतम)


रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं –
नानारत्नविभूषितं मृगमदामोदाक्कितं चन्दनम्  
जातीचम्पक-बिल्वपत्ररचितं पुष्पं च धूपं तथा – 
दीपं देव दयानिधे पशुपते ह्रत्कल्पितं गुह्यताम् ।।

  सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं –
  भक्ष्यं पञ्चविधं पयोदिधियुतं रम्भाफलं पानकम् ।
  शाकानामयुतं जलं रूचिकरं कर्पूरखण्डोज्जवलं –
  ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरू ।।

  छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं –
  वीणाभेरिमृदङ्ग काहलकलागीतं च नृत्यम् तथा ।
  साष्टांङ्गः प्रणतिः स्तुतिर्बहुविधा ह्येत्समस्तं मया –
  संकल्पेन समपिर्तम् तब विभो पूजां गृहाण प्रभो ।।

  आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं –
  पूजा ते विषयोपभोगरचना निद्रा समाधिस्तिथाः ।
  सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो –
  यद्यत्कर्म करोमि तत्दखिलं शम्भो तवाराधनम् ।।

  करचरण कृतम् वाक्कायजं कर्मजं वा –
  श्रवणनयनजं वा मानसं वापराधम् ।
  विदितंविदिं वा सर्वमेतत्क्षमस्व –
  जय जय करूणाब्धे श्रीमहादेव शम्भो ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.