Google Search

Tuesday, February 21, 2012

महामृत्युञ्जयस्तोत्रम्


ॐ अस्य श्रीमहामृत्युञ्जयस्तोत्रमन्त्रस्य श्री मार्कण्डेय ऋषिः अनुष्टुप् छन्दः ।
श्रीमृत्योअञ्ज देवता । गौरी शक्तिः ।
मम सर्वारिष्ट समस्त मृत्युशान्त्यर्थ सकलैश्वर्य प्राप्त्यर्थं च जपे विनियोगः ।।

चन्द्रार्काग्रि विलोचनं स्मितमुखं पद्य्मद्वयान्तः स्थितं ,
मुद्रापाश- मृगाक्ष – सूत्रविलसत्पाणिं हिमाशुप्रभं ।
कोटिन्धु – प्रगलत्सुधाप्लुत तनुं हारादि भूषोज्जलं
कान्त विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावते ।।

ॐ रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिं ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।

नीलकण्ठं कालमूर्ति कालज्ञं कालनाशनं ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।

नीलकण्ठं विरूपाक्षं निर्मलं निर्लयप्रभम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।
  

वामदेवं महादेवम् लोकनाथं जगद्गुरुं ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।

देवदेवं जगन्नाथं देवेशं वृषभध्वजं ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।

गंगाधरं महादेवं सर्वाभरण भूषितं ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।

अनाथः परमानन्दं कैवल्यपदगामिनं ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।

स्वर्गापवर्गदातारं सृष्टिस्थितिविनाशकं ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।

उत्पतिस्थिति संहारकर्तारमीश्वरं गुरुं ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।

मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ ।
तस्य मृत्यु भयं नास्ति नाग्रिचोरभयं क्कचित् ।।

शतावृतं प्रकर्तव्यं संकटे कष्टनाशनं ।
शुर्चिर्भूत्वापठेत् स्तोत्रं सर्वसिद्धिप्रदायकं ।।

मृत्युञ्जय महादेव त्राहि मां शरणागतं ।
जन्ममृत्युजरारोगैः पीड़ितं कर्मबन्धनैः ।।

तावकस्त्वद्गत प्राणस्त्वचित्तौहं सदा मृड ।
इति विज्ञाप्य देवेशं त्र्यम्बकाख्यमनुं जपेत् ।

नमः शिवाय शाम्बाय हरये परमात्मने ।
प्रणत क्लेशनाशाय योगिना पतये नमः ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.