(स्वामी विवेकानन्द)
का त्वं शुभे शिवकरे सुखदःखहस्ते
आघूर्णितं भवजलं प्रबलोर्मिभङ्गैः ।
शान्तिं विधातुमिह किं बहुधा विभग्राम्
मातः प्रयत्नपरमासि सदैव विश्वे ।।
सम्पादयन्त्यविरतं त्वविरामवृत्ता
या वै स्थिता कृतफलं त्वकृतस्य नेत्री ।
सा मे भवत्वनुदिनं वरदा भवानी
जनाम्यहं ध्रुवमियं धृतकर्मपाशा ।।
किं वा कृतं किमकृतं क्व कपाललेखः
किं कर्म वा फलमिहास्ति हि यां विना भोः ।
इच्छागुणैर्नियमिता नियमाः स्वतन्त्रै-
र्यस्या सदा भवतु सा शरणं ममाद्या ।।
सन्तानयन्ति जलधिं जनिमृत्युजालम्
सम्भावयन्त्यविकृतं विकृतं विभग्रम् ।
यस्या विभूतय इहामितशक्तिपालाः
नाश्रित्य तां वद कुतः शरणं व्रजामः ।।
मित्रे रिपौ त्वविषम् तव पद्य्मनेत्रम्
स्वस्थेऽसुखे त्ववितथस्तव हस्तपातः ।
छाया मृतेस्तव दया त्वमृतं च मात-
र्मुञ्चन्तु मां न परमे शुभदृष्टयस्ते ।।
क्वाम्बा शिवा क्व गृणनं मम हीनबुद्धे-
र्दोभ्यां विधर्तुमिव यामि जगद्विधात्रीम् ।
चिन्त्यं श्रिया सुचरणं त्वभयप्रतिष्ठम्
सेवापरैरभिनुतं शरणं प्रपद्ये ।।
या मा चिराय विनयत्यतिदुःखमार्गै-
रासिद्धितः स्वकलितैर्ललितैर्विलासैः ।
या मे मतिं सुविधे सततं धरण्यां
साम्बा शिवा मम गतिः सफलेऽफले वा ।।
No comments:
Post a Comment