Google Search

Wednesday, February 22, 2012

Upanishad ।।ईशावास्योपनिषत् ।।


ॐ पूर्णमद् पूर्णमिदं पूर्णात्पूर्णमुदुच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवाशिष्यते ।
ॐ शान्तिः शान्तिः शान्तिः ।।

ॐ ईशा वास्यमिदगं सर्व यतकिञ्ज जगत्यां जगत् ।
तेन त्त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ।।

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतगं समाः ।
एवं त्वयि नान्यथेतोस्ति न कर्म लिप्यते नरे असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।

तागस्ते प्रेत्याभिच्छन्ति ये के चात्महनो जनाः अनेजदेकं नमसो जवीयो नैनद्देवा आप्नुवनपूर्वमर्षत् ।
तद्वावतोन्यानत्येति तिष्ठत्तस्मिननपो मातरिश्वा दधाति ।।
तदेजति तन्नेजति तद्दूरे तद्वन्तिकै ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ।।
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ।।
यस्मिनसर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ।।
स पर्यगाच्छुक्रमकायमव्रणमस्नाविरगं शुद्धमपापविद्धम् ।
कविर्मनाषी परिभूः स्वयम्भू-र्याथातश्यतोर्थान्
व्यदधाच्छाश्वतीभ्यः समाभ्यः ।।
अन्धं तमः प्रविशन्ति येविद्यामुपासते ।
ततो भूयं ईव ते तमो य उ विद्यायाग रताः ।।
अन्यदेवाहुर्विद्ययान्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विदोभयगं सह ।
विद्यां च विद्यां च यस्तोद्वेदोभयगं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमुपासते ।।
अन्धं तमः प्रविशन्ति येसमभूतिमुपासते ।
ततो भूयं ईव ते तमो य उ सम्भूत्यागं रताः ।।
अन्यदेवाहुः सम्भवादव्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ।।
सम्भूति च विनाशं च यस्तद्वेदोभयगं सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्यामृतमश्नुते ।।
हिरण्येन पात्रेण स्तयस्यापिहितं मुखम् ।
तत्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।।
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन
समूह तेजो यत्ते रुपं कल्याणतम् तत्ते पश्यामि ।
योसावसौ पुरुषः सोहमस्मि ।।
वायुरनिलममृतमथेदं भस्मान्तगं शरीरम् ।
ॐ क्रतो स्मरं कृतगं स्मर क्रतो स्मर कृतगं स्मर ।।
अग्रे नयं सुपथा राये अस्मान विश्वानि देव वयुनानि विद्नान ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम् ।।
ॐ पूर्णमद् पूर्णमिदं पूर्णात्पूर्णमुदुच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवाशिष्यते ।
ॐ शान्तिः शान्तिः शान्तिः ।।
।। आत्मस्वरुप कथनम् ।।
किं ज्योतिस्तव भानुमानहनि मे रात्रौ प्रदीपादिकं
स्यादेवं रविदीपदर्शनविधौ किं ज्योतिराख्याहि मे ।
चक्षुत्सस्य निमीलनागिसमये किं धीर्धियोदर्शने
किं तत्राहमतो भवान्परमं ज्योतिस्तदस्मि प्रभो ।।

1 comment:

Unknown said...

Please give credits and page no. in detail too. Thank you!

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.