Google Search

Tuesday, February 21, 2012

इन्द्राक्षी स्तोत्रम्


ॐ अस्य इन्द्राक्षी स्तोतमहामन्त्रस्य शचीपुरन्दर ऋषिः
अनुष्टुप् छन्दः। इन्द्राक्षी देवता । महालक्ष्मिर्बीजम् । भुवनेश्वरी शक्तिः ।
महेश्वरी कीलकम् । इन्द्राक्षी देवी प्रसाद सिर्द्ध्य्थे जपे विनियोगः ।

अथ करन्यासः
ॐ इन्द्राक्षी अंगुष्टाभ्यां नमः।
ॐ महालक्ष्मी तर्जनीभ्यां नमः।
ॐ महेश्वरी मध्यमाभ्यां नमः।
ॐ अम्बुजाक्षीं अनामिकाभ्यां नमः।
ॐ कात्यायनीं कनिष्ठकाभ्यां नमः।
ॐ कौमारीं करतलकरपृष्ठाभ्यां नमः।

अथ अंगन्यास
ॐ इन्द्राक्षी ह्रदयाय नमः।
ॐ महालक्ष्मी शिरसे स्वाहा।
ॐ महेश्वरी शिखायै वषट् ।
ॐ अम्बुजाक्षीं कवचाय हुं ।
ॐ कात्यायनीं नेत्रत्रयाय वौषट् ।
ॐ कौमारीं अस्त्राय फट् ।
।। भू-र्भूवस्सुवरोमिति दिग्बन्धः ।।

।।अथ ध्यानम् ।।
नेत्राणां दशभिश्शतैः परिवृत्यामत्युग्र चर्माम्बरां ।
हेमाभां महतीं विलम्बित शिखा मा मुक्तिकेशान्वितां

घण्टामण्डित पादपद्य्मयुगलां नागेन्द्रकुम्भस्तनीं ।
इन्द्राक्षी परिचिन्तयामि सततं प्रत्यक्ष सिद्धिप्रदाम् ।।

इन्द्राक्षीं द्विभुजां देवीं पीतवस्त्रद्वयान्वितां ।
वामहस्ते वज्रधरां दक्षिणेन वरप्रदाम् ।

इन्द्राक्षीं नौमि युवतीं नानालंकार भूषितां ।
प्रसन्न वदनाम्भोजामप्सरो – गणसेविताम् ।।

।। अथ इन्द्राक्षी स्तोत्र प्रारम्भः ।।

।। इन्द्र उवाच ।।
इन्द्राक्षी पूर्वतः पातुपातुग्रेय्यां पथेश्वरी ।
कौमारी दक्षिणे पातु नैर्ऋत्यां पातु पार्वती ।।

वाराही पश्चिमे पातु वायव्ये नारसिंह्यपि ।
उदीच्यां कालरात्रिर्मामीसन्यां सर्वशक्तयः ।।

भैरव्यूर्ध्व सदा पातु पात्वधो वैष्णवी तथा ।
एवं दशादिशो रक्षेत्सर्वांग भुवनेश्वरी ।।

इन्द्राक्षी नाम सा देवी दैवतैः समुदाह्रता ।
गौरी साकम्वरी देवी दुर्गानाम्नीति विश्रुता ।।

कात्यायनी महादेवी चण्डघण्टा महातपा ।
सावित्री सा च गायत्री ब्राह्मणी ब्रह्मवादिनी ।।

नारायणी भद्रकाली रुद्राणी कृष्ण पिंघला ।
अग्रिज्वाला रौद्रमुखी कालरात्री तपस्विनी ।।

मेघस्वना सहस्राक्षी विकटांगी जडोदरी ।
महादरी मुक्तकेशी घोररुपा महाबला ।।

अजिता भद्रदानन्ता रोगहत्री शिवप्रिया ।
शिवदूती काराली च शक्तिश्च परमेश्वरी ।।

आर्या दक्षायणी चैव गिरिजा मेनकात्मजा ।
महिषासुर संहारी चामुण्डा सप्तमातृका ।।

सर्वरोगी परस्मनी नारायणी नमोस्तुते ।
इन्द्राणी चेन्द्ररुपा च इन्द्रशक्तिः परायणी ।।

वाराही नारसिंही च भीमा भैरव नादिनी।

सदा संमोहिनी देवी सुन्दरी भुवनेश्वरी ।
एकाक्षरी महामायी एकांगी एकनायकी ।।

कोमल श्यामलारुपी कोटिसूर्यप्रकाशनी ।
श्रुतिः स्मृतिधृतिर्मेधा विद्या लक्ष्मी सरस्वती ।।

अनन्ता विजयापर्णा मानस्तोकापराजिता ।
भवानी पार्वती दुर्गा हैमवत्यम्बिका जया ।।

शिवा भवानी रुद्राणी शंक्करार्धशरीरिणी ।
ऐरावत गजारुढा वज्रहस्ता धर्नुधरा ।।

ऐन्द्री देवी सदाकालं शान्तिमाशु करोतु मे ।
ऐतैर्नाम पदैर्दिव्यैः स्तुता सक्रेण धीमता ।

आयुरारोग्यमैश्वर्यमपमृत्युभयापहं ।
क्षयापस्मारकुष्ठादि तापज्वर निवारणं ।।

शीतज्वर निवारणं उष्णज्वर निवारणं ।

सन्निज्वर निवारणं सर्वज्वर निवारणं ।
सर्वरोग निवारणं सर्वशत्रु निवारणं ।।

महाभय निवारणं मनःक्लेश निवारणं ।
शतमावर्तयेद्यस्तु मुच्यते व्याधि बन्धनात् ।।

आवर्तन् सहस्रं तु लभते वाच्छितं फळं ।

ऐतत् स्तोत्रं जपन्नेत्यं सर्वव्याधिविनाशनं ।
रणे राजभये चोरे सर्वत्र विजयी भवेतु ।।

सर्व मंङ्ळ मांङ्गल्ये शिवे सर्वाध साधिके ।
शरण्ये त्रयम्बिके गौरी नारायणी नमोतुते ।।

त्रिपादभस्म् प्रहरणस्रिशिरा रक्तलोचनः ।
स मे प्रीतः सुखम् दद्यात् सर्वामय पतिर्ज्वरः ।।

ज्वरं च ज्वरसारं च ज्वरातीसारमेव च ।
सन्निपात ज्वरं चैव शीतोष्ण ज्वरमेव च ।

कौबेरन्तं मुखे रौद्रे नन्दिमन्दिमवाह ।
ज्वरं मृत्युभयं घोरं ज्वरं नाशयं मे ज्वर ।

भस्मायुधाय विद्य्महे रक्तनेत्राय धीमहि ।
तन्नो ज्वरः प्रचोदयात् ।।

ज्वरराजाय विद्य्महे त्रिशिरस्काय धीमहि ।
तन्नस्रिपात् प्रचोदयात् ।।

मृत्योस्तुल्यं त्रिलोकीं ग्रसितु मातिरसान्निस्मृताः
किं नु जिह्वाः किं वा कृष्णांघ्रिपद्य्मद्युतिभि-
रुरुणिता विष्णुपद्याः पदव्यः ।
प्राप्ताः संध्याः स्मरारेः स्वयमतु
नुतिभिस्तिस्र इत्यूह्यमानाः
दिव्यैर्देवा स्रिशूलक्षत-
महिषजुषो रक्तधारा जयन्ति ।।

मातर्मे मधुकैटभग्नि महिषप्राणापहारोद्यमे
हेला निर्मित-धूम्रलोचन-वधे हे चण्डमुण्डार्दिनि ।
निःशेषीकृत – रक्तबीजदनुजे नित्ये निशुम्भापहे
शुम्भध्वंसनि संहराशु दुरितं दुर्गे नमस्तेम्बिके ।।

अष्टौ भुजांङगी महिषस्य मर्दिनीं
सशंखचक्रां शरशूलधारिणीं ।
तां दिव्ययोगीं सहजातवेदसीं
दुर्गां सदाहं शरणं प्रपद्ये ।।

महिषमस्तक नृतविनोदन-
स्फुटरणन्मणिनूपुरमेखळा ।
जननरक्षणमोक्षनविधायनी
जयतु शुम्भनिशुम्भनिषूदिनी ।।

ब्रह्माणी कमळेन्दुसौम्यवदना महेश्वरी लीलया
कौमारी रिपुदर्पनाशकरी चक्रायुधा वैष्णवी ।
वाराही घनघोरघर्घरमुखी द्रंष्टी च चक्रयुधा
चामुण्डा गणनाथरुद्रसंहिता रक्षन्तु मां मातरः ।।

उद्धतौ मधुकैटभौ महिषासुरं तु निहत्य तं
धूम्रलोचन- चण्डमुण्डक – रक्तबीजमुखांश्च तान् ।
दुष्ट – शुम्भनिशुम्भमर्दिनी नन्दितामरवन्दिते
विष्टपत्रय – पुष्टिकारिणी भद्रकाली नमोस्तुते ।।

लक्ष्मी – प्रदान – समये नवविद्रुमाभां
विद्या – प्रदान – समये शरदिन्दु शुभ्रां ।
विद्वेषि वर्ग विजयेपि तमाल – नीलां
देवीं त्रिलोक – जननीं शरणं प्रपद्ये ।।

।। श्री महादेव्यै नमः ।।
इन्द्राक्षीस्तोत्रं सम्पूर्णम् ।।
(श्री मार्कण्डेय पुराणम्)

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.