Google Search

Wednesday, February 22, 2012

गुर्वष्टकम्


शरीरं सुरुपं तथा वा कलत्रं
यशश्वारु चित्रं धनं मेरुतुल्यम् ।
मनश्वेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ।।

कलत्रं धनं पुत्रपौत्रादि सर्वं
गृह बान्धवाः सर्वमेतद्धि जातम् ।
मनश्वेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ।।

षडङ्गादिवेदो मुखे शास्रविद्या
कवित्वादि गद्यं सुपद्यं करोति ।
मनश्वेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ।।

विदेशेषु मान्यः स्वदेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्यः ।
मनश्वेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ।।

क्षमामण्डले भूपभूपालवृन्दैः
सदा सेवितं यस्य पादारविन्दम् ।
मनश्वेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ।।

यशो मे गतं दिक्षु दानप्रतापा-
ज्जगद्वस्तु सर्वं करे यत्प्रसादात् ।
मनश्वेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ।।

न भोगे न योगे न वा वाजिराजौ
न कान्तामुखे नैव वित्तेषु चित्तम् ।
मनश्वेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ।।

अरण्ये न वा स्वस्य गेहे न कार्ये
न देहे मनो वर्तते मे त्वनर्घ्ये ।
मनश्वेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ।।

गुरोरष्टकम् यः पठेतुपुण्यदेही
यातिर्भूपतिर्ब्रह्मचारी च गेही ।
लभेद्वाञ्छितार्थ पदं ब्रह्मसज्ञं
गुरोरुक्तवाक्ये मनो यस्य लग्नम् ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.