Google Search

Tuesday, February 21, 2012

मीनाक्षीस्तोत्रम्


(श्री शंकराचार्य कृतम्)

श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते
श्रीनाथदिगुरुस्वरुपविभवे चिन्तामणीपीठिके ।
श्रीवाणीगिपिजानुताङ्घ्रिकमले श्रीशाम्भवि श्रीशिवे
मध्याह्रे मलयध्वजाधिपसुते मां पाहि मीनाम्बके ।।

चक्रस्थेचपले चराचरजगन्नाथे जगत्पूजिते
आर्तालीवरदे नताभयकरे वक्षोजभारान्विते ।
विद्ये वेदकलापमौलिविदिते विद्युल्लताविग्रहे
मातः पूर्णसुधारसार्द्रह्रदये मां पाहि मीनाम्बिके ।।

कोटीराङ्गदरत्नकुण्डलधरे कोदण्डबाणञ्चिते ।
कोकाकारकुचद्वयोपरिलसत्प्रादुकालंक्कृते
शिञ्जन्नूपुरपादसारसमणिश्रीपादुकालङ्कृते
मद्दारिद्र्यभुजङ्गारुडखगे मां पाहि मीनाम्बिके ।।

ब्रह्मेशाच्युतगीयमानचरिते प्रेतासनान्तःस्थिते
पाशोदङ्कुशचापबाणकलिते बालेन्दुचूडाञ्चिते ।
बाले बालकुरङ्लोलनयने बालार्ककोट्युज्ज्वले
मुद्राराधितदेवते मुनिनुते मां पाहि मीनाम्बिके ।।

गन्धार्वामरयक्षपन्नगनुते गंङ्गाधरालिंगते
गायत्रीगरुडासने कमलजे सुश्यामले सुस्थिते ।
खातीते खलदारुपावकशिखे खद्योतकोट्युज्ज्वले
मन्त्रारिधितदेवते मुनिनुते मां पाहि मीनाम्बिके ।।

नादे नारदतुम्बुराद्यविनुते नादान्तनादात्मिके
नित्ये नीललतात्मिके निरुपमे नीवारशूकोपमे ।
कान्ते कामकले कदम्बनिलये कामेश्वरांक्कस्थिते
मद्विते मदभीष्टकल्पलतिके मां पाहि मीनाम्बके ।।

वीणानादनीमिलितार्धनयने विस्रस्तचूलीभरे
तम्बूलारुणपल्लवाधरयुते ताटक्कहारान्विते ।
श्यामे चन्द्रकलावतंसकलिते कस्तूरिकाफालके
पूर्णे पूर्णकलाभिरामवदने मां पाहि मीनाम्बके ।।

शब्दब्रह्ममयी चराचरमयी ज्योतिर्मयी वाङ्मयी
नित्यानन्दमयी निरञ्जनमयी तत्वंमयी चिन्मयी ।
तत्वातीतमयी परात्परमयी मायामयी श्रीमयी
सर्वैर्श्वमयी सदाशिवमयी मां पाहि मीनाम्बिके ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.