Google Search

Tuesday, February 21, 2012

द्वादशज्योतिर्ळिंगस्तोत्रम् - (श्री शंकराचार्य कृतम)


सौराष्ट्रदेशे वसुधावकाशे ।
ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृतावतारं ।
तं सोमनाथं शरणं प्रपद्ये ।।

श्रीशैळश्रृंङ्गे विविधप्रसंगे
शेषाद्रिश्रृंगेपि सदा वसन्तम् ।
तमर्जुनम् मल्ळिकपूर्वमेनं
नमामि संसारसमुद्रसेतुम् ।।

अवन्तिकायां विहितावतारं ।
मुक्तिप्रदानाय च सज्जनानाम् ।
अकाळमृत्योः परिरक्षणार्थ ।
वन्दे महाकाळमहसुरेशम् ।।

कावेरिका नर्मदयोः पवित्रे ।
समागमे सज्जनतारणताय ।
सदैव मान्धातृपुरेवसन्त –
मोङ्गारमीशं शिवमेकमीडे ।।

पूर्वोत्तरे पारळिकाभिधाने ।
सदाशिवं तं गिरजातमेतम् ।
सुरासुराधितपादपद्यं
श्रीवैद्यनाथं सततं नमामि ।।

आमर्द संघे नगरे च रम्ये ।
विभूषितांङ्ग विविधैश्व भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं
श्रीनागनाशं शरणं प्रपद्ये ।।

हिमाद्रिपार्श्वेपि तटे रमन्तं ।
सम्पूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्षमहोरगाद्यैः ।
केदारमीशं शिवमेकमीडे ।।

सह्याद्रिशीर्षे विमळे वसन्तं ।
गोदावतीरपवित्रदेशे ।
यद्दर्शनात्पातकमाशु नाशं ।
प्रयाति तं त्र्यम्बकमीशमीडे ।।

श्रीताम्रपर्णीजलराशियोगे ।
निबध्य सेतुं निशि बिल्वपत्रैः ।
श्रीरामचन्द्रेण समर्पित तं
रामेश्वराख्यं सततं नमामि ।।

यं डाकिनीशाकिनिकासमाजे –
निषेव्यमाणं पिशिताशनैश्व ।
सदैव भीमादिपदप्रसिद्धं –
तं शंकरं भक्तहितं नमामि ।।

सानन्दमानन्दवने वसन्त –
मानन्दकदं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं
श्रीविश्वनाथं शरणं प्रपद्ये ।।

ईळापुरे रम्यविशालकेस्मिन् –
समुल्ळसन्तं च जगद्वेरण्यम् ।
वन्दे महोदारतरस्वभावं-
घृष्णेश्वराख्यं शरणं प्रपद्ये ।।

ज्योर्तिमयद्वादशळिंगकानां –
शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोतिभक्त्या –
फलंतदालोक्य निजं भजेञ्च ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.