Google Search

Tuesday, February 21, 2012

वेदसारशिवस्तोत्रम् - (श्री शंकराचार्य कृतम)


पशूनां पतिं पापनाशं परेशं –
गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् ।
जटाजूटमद्य्ये स्फुरद्गङ्वारिं –
महादेवमेकं स्मरामि स्मरारिम् ।।

महेशं सुरेशं सुरारातिनाशं –
विभुं विश्वनाथं विभूत्यङ्ग्भूषणम् ।
विरूपाक्षमिन्द्वर्कविह्नित्रिनेत्रं –
सदानन्दमीडे प्रभुं पंञ्चवक्त्रम् ।।

गिरिशं गणेशं गले नीळवर्णं –
गवेन्द्राधिरूढं गुणातीतरूपम् ।
भवं भास्करं भस्मना भूषिताङ्ग –
भवानीकलत्रं भजे पंञ्चवक्त्रम् ।।

शिवाकान्त शम्भो शशांर्ङ्धमौले –
महेशान शूलिन जटाजूटधारिन ।
त्वमेको जगद्व्यापको विश्वरूपः –
प्रसीद प्रसीद प्रभो पूर्णरूप ।।

परात्मानमेकं जगद्वीजमाद्यं –
निरीहं निराकारमोङ्कारवेद्यम् ।
यतो जायते पाल्यते येन विश्वं –
तमीशं भजे ळीयते यत्र विश्वम् ।।

न भमिर्न चापो न वर्ह्न्नि वायु-
र्न चाकास्मास्ते न तन्द्रा न निद्रा ।
न ग्रीष्मो न शीतं न देशो न वेषो –
न यस्यास्ति मूर्तिस्त्रिमूर्ति तमीडे ।।

अजं श्वाश्वतं कारणं कारणानां –
शिवं केवलं भासकं भासकानाम् ।
तुरीयं तमःपारमाद्यन्तहीनं –
प्रपद्ये परं पावनं द्वैतहीनम् ।।

नमस्ते नमस्ते विभो विश्वमूर्ते –
नमस्ते नमस्ते चिदानन्दमूर्ते ।
नमस्ते नमस्ते तपोयोगगम्य –
नमस्ते नमस्ते श्रुतिज्ञानगम्य ।।

प्रभो शूलपाणे विभो विश्वनाथ –
महादेव शम्भो महेश त्रिनेत्र ।
शिवाकान्त शान्त स्मरारे पुरारे –
त्वदन्यो वरेण्यो न मान्यो न गण्यः ।।

शम्भो महेश करूणामय शूलपाणे –
गौरीपते पशुपते पशुपाशनाशिन् ।
काशीपते करूणया जगदेतदेक –
स्त्वं हंसि पासि विदधासि महेश्वरोसि ।।

त्वत्तो जगद्ववति देव भव स्मरारे –
त्वय्येव तिष्ठति जगन्मृड विश्वनाथ ।
त्वय्येव गच्छति लयं जगदेतदीश –
लिङात्मकं हर चराचरविश्वरूपिन् ।।

No comments:

" Motivational Video "

All Posts on this blog are the property of their respective authors. All information has been reproduced here for educational and informational purposes.