Pages

Wednesday, February 22, 2012

Upanishad ।।तैत्तिरीयोपनिषत् ।।


प्रथमा शीक्षावल्ली
ॐ शं नो मित्र-श्शं वरुणं ।
शं नो भवत्वर्यमा ।
शं न इन्द्रो बृहस्पतिः ।
शं नो विष्णु-ररुक्रमः ।
नमो ब्रह्मणे ।
नमस्ते वायो ।
त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वामेव प्रत्यक्षं ब्रह्म वादिष्यामि ।
ऋतं वदिष्यामि ।
सत्यं वदिष्यामि ।
तन्मामवतु ।
तद्वक्तामवतु ।
अवतु वक्तारम् ।
।। ॐ शान्तिः शान्तिः शान्तिः।।

शिक्षाशास्त्रार्थसङ्कहः
शीक्षां व्याख्यास्यामः ।
वर्ण-स्स्वरः ।
मात्रा बलम् ।
सामसन्तानः ।
इत्युक्त-श्शीक्षाध्यायः ।।

संहितोपासनम्
सह नौ यशः ।
सह नौ ब्रह्मवर्चसम् ।
अथातस्सगंहिताया उपनिषदं व्याख्यास्यामः ।
पञ्चस्वधिकरणेषु ।
अधिलोकमधिज्यौतिष-मधिविद्य-मधिप्रजं-मध्यात्मम् ।
ता महासगंहिता इत्याचक्षते ।
अथाधिलोकम् ।
पृथिवी पूर्वरुपम् ।
द्यौ रुत्तरुपम् ।
आकाश-स्सन्धिः ।।
वायु-स्सन्धानम् ।
इत्यधिलोकम् ।
अथाधिज्यौतिषम् ।
अग्रिः पूर्वरुपम् ।
आदित्य उत्तररुपम् ।
आपस्सन्धिः ।
वैद्युतस्सन्धानम् ।
इत्याधिज्यौतिषम् ।
अथाधिविद्यम् ।
आचार्यः पूर्वरुपम् ।।
अन्तेवास्युत्तररुपम् ।
विद्या सन्धिः ।
प्रवचनगं सन्धानम् ।
इत्याधिविद्यम् ।
अथाधिप्रजम् ।
 माता पूर्वरुपम् ।
पित्तोत्तररुपम् ।
प्रजासन्धिः ।
प्रजननगं सन्धानम् ।
इत्यधिप्रजम् ।।
अथाध्यात्मम् ।
अधराहनुः पूर्वरुपम् ।
उत्तराहनुरुत्तररुपम् ।
वाक्सन्धिः ।
जिह्वासन्धानम् ।
इत्यध्यात्मम् ।
इतीमामहासगंहिताः ।
य एवमेता महासगंहिता व्याख्याता वेद ।
सन्धीयते प्रजया पशुभिः ।
ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन ।।

मेघादि-सिद्धय्यर्था आवहन्तीहोम – मन्त्राः
यश्छन्दसा-मृषभो विश्वरुपः ।
छन्दोभ्योध्यमृताथ्संबभूव ।
स मेन्द्रो मेधर्या स्पृणोतु ।
अमृतस्य देवधारणो भूयासम् ।
शरीरं मे विचर्षणम् ।
जिह्वा मे मधुमत्तमा ।
कर्णाभ्यां भूरिविश्वुवम् ।
ब्रह्मणः कोशोसि मेधया पिंहितः ।
श्रुतं मे गोपाय ।
आवहन्ती वित्वन्वा ।।
कुर्वाणा चीर मात्नमः ।
वासागंसि मम गावश्व ।
अन्नपाने च सर्वदा ।
ततो मे श्रिय-मावह ।
लोमशां पशुभिस्सह स्वाहा ।
आमायन्तु ब्रह्मचारिणस्स्वाहा ।
विमाऽऽयन्तु ब्रह्मचारिणस्स्वाहा ।
प्रमाऽऽयन्तु ब्रह्माचारिणस्स्वाहा ।
दमायन्तु ब्रह्माचारिणस्स्वाहा ।
शमायन्तु ब्रह्माचारिणस्स्वाहा ।।
यशो जनेसानि स्वाहा ।
श्रेयान् वस्ससोसानि स्वाहा ।
तं त्वा भग प्रवशिनी स्वाहा ।
स मा भग प्रविश स्वाहा ।
यथाऽऽपः प्रवाऽऽयन्ति ।
यथा मासा अहर्जरम् ।
एवं मां ब्रह्मचारिणः ।
धातरायन्तु सर्वत-स्स्वाहा ।
प्रतिवेशोऽऽसि प्रमाभाहि प्रमापधस्व ।।

व्याह्रत्युपासनम्
भू-र्भूव-स्सुव-रिति वा एता-स्तिस्रो व्याह्रतयः ।
तासामुहस्मै तां चतुरर्थीम् ।
माहाचमस्यः प्रवेदयते ।
मह इति ।
तद्वह्य ।
स आत्मा ।
अङ्गान्यन्या देवताः ।
भूरिति वा अयं लोकः।
भुव इत्यन्तरिक्षम् ।
सुव-रित्यसौ लोकः ।।
मह इत्यादित्यः ।
आदित्येन वाव सर्वे-लोका महीयन्ते ।
भूरिति वा अग्रिः ।
भुव इति वायुः ।
सुव-रित्यादित्यः ।
मह इति चन्द्रमाः ।
चन्द्रमसा वाव सर्वाणि ज्योतिगषि महीयन्ते ।
भू-रिति वा ऋचः ।
भुव इति सामानि ।
सुव-रिति यजूगषि ।।
मह इति ब्रह्म ।
ब्रह्मणा वाव सर्वेवेदा महीयन्ते ।
भूरिति वै प्राणः ।
भुव इत्यपानः ।
सुव रिति व्यानः ।
मह इत्यन्नम् ।
अन्नेन वाव सर्वे प्राणा महीयन्ते ।
ता वा एताश्चतस्रश्रर्धा।
चतस्रश्रतस्रो व्याह्रतयः ।
ता यो वेद ।
स वेद ब्रह्म ।
सर्वेस्मैदेवा बलिमावहन्ति ।।

मनोमयत्वादि-गुणक-व्रह्मोपासनया स्वाराज्य-सिद्धिः
स य एषोन्त-र्ह्रदय आकाशः ।
तस्मिन्नयं पुरुषो मनोमयः ।
अमृतो हिरण्यमयः ।
अन्तरेण ताल्लुके ।
य एषस्तनं ईवावलम्बते ।
सेन्द्रयोनिः ।
यत्रासौ केशान्तो विवर्तते ।
व्यपोह्य शीर्षकपाले ।
भूरित्यग्रौ प्रतितिष्ठति ।
भूव ईतिवायौ ।।
सवरित्यादित्ये ।
मह इति ब्रह्मणि ।
आप्नोति स्वाराज्यम् ।
आप्नोति मनसस्पतिम् ।
वाक्पतिश्रक्षुष्पतिः ।
श्रोत्रपतिर्विज्ञानपतिः ।
एत्तत्ततो भवति ।
आकाशशरीरं ब्रह्म ।
सत्यात्म प्राणारामं मन आनन्दम् ।
शान्तिसमृद्ध-ममृतम् ।
इति प्राचीन योग्योपास्व ।।

पृथिव्याद्युपाधिक-पञ्च-ब्रह्मोपासनम्
पृथिव्यन्तरिक्षं द्यौ-दिशोवान्तदिशाः ।
अग्रिर्वायुरादित्यश्वन्द्रमा नक्षत्राणि ।
आप ओषधयो वनस्पतये आकाश आत्मा ।
इत्युधिभूतम् ।
अथाध्यात्म् ।
प्राणो व्यानोपान उदानस्समानः ।
चक्षुश्श्रोत्रं मनो वाक् त्वक् ।
चर्ममागंसग्ग् स्नावास्थि मज्जा ।
एत-दधिविधाय ऋषि-रवोचत् ।
पाङ्क्तं वा इदगं सर्वम् ।
पाङ्क्तेनैव पाङ्गत्तग्ग् स्पृणोतीति ।।

प्रणवोपासनम्
ओ-मिति ब्रह्म ।
ओमितीदगं सर्वम् ।
ओमित्येत-दनुकृति हस्म वा अप्योश्रावयेत्याश्रावयन्ति ।
ओ-मिति सामानि गायन्ति ।
ओगं-शो-मिति शस्त्राणि शगसन्ति ।
ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति ।
ओ-मिति ब्रह्मा प्रसौति ।
ओ-मित्यग्रिहोत्र-मनुजानाति ।
ओमिति ब्रह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति ।
ब्रह्मौवोपाप्नोति ।।

स्वाध्याय-प्रशंशा
ऋतं च स्वाध्यायप्रवचने च ।
सत्यं च स्वाध्यायप्रवचने च ।
तपश्च स्वाध्यायप्रवचने च ।
दमश्च स्वाध्यायप्रवचने च ।
शमश्च स्वाध्यायप्रवचने च ।
अग्रयश्च स्वाध्यायप्रवचने च ।
अग्रिहोत्रं च स्वाध्यायप्रवचने च ।
अतिथयश्च स्वाध्यायप्रवचने च ।
मानुषं च स्वाध्यायप्रवचने च ।
प्रजा च स्वाध्यायप्रवचने च ।
प्रजनश्च स्वाध्यायप्रवचने च ।
प्रजातिश्च स्वाध्यायप्रवचने च ।
सत्यामिति सत्यवर्चा राथी तरः ।
तप इति तपोनित्यः पौरुशिष्टिः ।
स्वाध्याय प्रवचने एवेति नाको मौद्गल्यः ।
तद्धि तप-स्तद्धि तपः ।।

ब्रह्मज्ञान-प्रकाशक-मन्त्रः
अहं वृक्षस्य रेरिवा ।
कीर्तिः पृष्ठं गिरे-रिव ।
ऊर्ध्वपवित्रो वाजिनीव स्वमृत-मस्मि ।
द्रविणगं सवर्चसम् ।
सुमेधा अमृतोक्षितः ।
इति त्रिशंक्कोर्वेदानुवचनम् ।।

शिष्यानुशासनम्
वेदमनूच्यार्योन्तेवासिन-मनुशास्ति ।
सत्यं वद ।
धर्मं चर ।
स्वाध्यायान्मा प्रमदः ।
आचार्याय प्रियं धनमाह्रत्य प्रजातन्तुं मा व्यवच्छेत्सीः ।
सत्यान्न प्रमदितव्यम् ।
धर्मान्न प्रमदितव्यम् ।
कुशलान्न प्रमदितव्यम् ।
भूत्यै न प्रमदितव्यम् ।
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ।।
देवपितृकार्याभ्यां न प्रमदिव्यम् ।
मातृदेवो भव ।
पितृदेवो भव ।
आचार्यदेवो भव ।
अतिथिदेवो भव ।
यान्यवद्यानि कर्माणि ।
तानि सेविताव्यानि ।
नो इतिराणि ।
यान्य स्माकगं सुचारितानि ।
तानि त्वयोपास्यानि ।।
नो इतिराणि ।
ये के चास्मच्छ्रेचागसो ब्राह्माणाः ।
तेषां त्वयाऽऽसने न प्रश्चसितव्यम् ।
श्रद्वया देयम् ।
अश्रद्धयादेयम् ।
श्रिया देयम् ।
ह्रिया देयम् ।
भिया देयम् ।
संविदा देयम् ।
अथ यदि ते कर्मविचिकित्सा वा वृत्तवचिकित्सा वा स्यात् ।।
ते तत्र ब्राह्माणा-स्सम्मरशिनः ।
युक्ता आयुक्ताः ।
अलक्षां धर्म-कामास्स्युः ।
यथा ते तत्र वर्तेरेन् ।
तथा तत्र वर्थेथाः ।
एष आदेशः ।
एष उपदेशः ।
एषा वेदोपनिषत् ।
एतदनुशासनम् ।
एवमुपासितव्यम् ।
एवमुचैतदुपास्यम् ।।

उत्तरशान्तिपाठः
शं नो मित्र-श्शं वरुणः ।
शं नो भवत्यर्यमा ।
शं न इन्द्रो बृहस्पतिः ।
शं नो विष्णु-ररुक्रमः ।
नमो ब्रह्मणे ।
नमस्ते वायो ।
त्व-मेव प्रत्यक्षं ब्रह्मसि ।
त्वामेव प्रत्यक्षं ब्रह्मावादिषम् ।
ऋतमवादिष्यामि ।
सत्यमवादिषम् ।
तन्मामावीत् ।
तद्वक्तारमावीत् ।
आवीन्माम् ।
आवीद्वक्तारम् ।
।। ॐ शान्तिः शान्तिः शान्तिः।।

द्वितीया ब्रह्मानन्दवल्ली
ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ।।
।।ॐ शान्तिः शान्तिः शान्तिः ।।

उपनिषत्सारसंग्रहः
ॐ ब्रह्मविदाप्नोति परम् ।
तदेषाभ्युक्ता ।
सत्यं ज्ञानमनन्तं ब्रह्म ।
यो वेद निहितं गुह्ययां परमे व्योमेन् ।
सोऽऽश्नुते सर्वान् कामान्सह ।
ब्रह्माणा विपश्रितेति ।
तस्माद्वा एतस्मादात्मनं आकाशस्सभूतः ।
आकाशद्वायुः ।
सायो- रग्रिः ।
अग्रेरापः ।
अद्भयः पृथिवी ।
पृथिव्या ओषधयः ।
ओषधीभ्योन्नम् ।
अन्नात्पुरुषः ।
स वा एष पुरुषोन्नरसमयः ।
तस्येद-मेव शिरः ।
अयं दक्षिणः पक्षः ।
अयमुत्तरः पक्षः ।
अयत्मामा ।
इदं पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ।।

पञ्चकोशिविवरणम्
अन्नादेवै प्रजाः प्रजायन्ते ।
याः काश्च पृथिवीगश्रिताः ।
अथो अन्नेनैव जीवन्ति ।
अथैन-दपियन्तन्तः ।
अन्नगं हि भूतानां ज्येष्ठम् ।
तस्मास्तर्वौषधमुच्चते ।
सर्व वै तेन्नामाप्वोति ।
येन्नं ब्रह्मोपासते ।
अन्नगं हि भूतानां ज्येष्ठम् ।
तस्मात् सर्वौषधमुच्चते ।
अन्नाद्भूतानि जायन्ते ।
जातान्यन्नेन वर्धन्ते ।
अद्यतेत्ति च भूतानि ।
तस्मादन्नं तदुच्यत इति ।
तस्माद्वा एतस्मा-दन्नरसमयात् ।
अन्योन्तर आत्मा प्राणमयः ।
तैनैष पूर्णः ।
स वा एष पुरुशविश्च एव ।
तस्य पुरुशविधताम् अन्वयं पुरुशविधः ।
तस्य प्राणं एव शिरः ।
व्यानो दक्षिणः पक्षः ।
अपान् उत्तरः पक्षः ।
आकाश आत्मा ।
पृथिवी पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ।।
प्राणं देवा अनुप्राणन्ति ।
मनुष्यो पशवश्च ये ।
प्राणो हि भूताना-मायुः ।
तस्मा-त्सर्वायुषमुच्यते ।
सर्व-मे त आयु – र्यन्ति ।
ये प्राणं ब्रह्मोपासते ।
प्राणो हि भूताना-मायुः ।
तस्मास्तसर्वायुषमुच्यते इति ।
तस्यैव एव शारीर आत्मा ।
य़ः पूर्वस्य ।
तस्माद्वा एतस्मात् प्राणमयात् ।
अन्योन्तर आत्मा मनोमयः ।
तेनैष पूर्णः ।
स वा एष पुरुषविध एव ।
तस्य पुरुषविधताम् ।
अन्वयं पुरुषविधः ।
तस्य यजुरेव शिरः ।
ऋगदक्षिणः पक्षः ।
सामोत्तरः पक्षः ।
आदेश आत्मा ।
अथर्वाङ्गरसः पुच्छं प्रतिष्ठां ।
तदप्येष श्लोको भवति ।।
यतो वाचो निर्वर्तन्ते ।
अप्राप्य मनसा सह ।
आनन्दं ब्रह्माणो विद्वान ।
न बिभेति कदाचनेति ।
तस्यैष एव शारीर आत्मा विज्ञानमयः ।
तेनैष पूर्णः ।
स वा एष पुरुषविध एव ।
तस्य पुरुषविधताम् ।
अन्वयं पुरुषविधः ।
तस्य श्रद्वैव शिरः ।
ऋतं दक्षिणः पक्षः ।
सत्यमुत्तरः पक्षः ।
योग आत्मा ।
महः पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ।।
विज्ञानं यज्ञं तनुते ।
कर्माणि तनुतेपि च ।
विज्ञानम् देवा सर्वे ।
ब्रह्म ज्येष्ठमुपातसे ।
विज्ञानं ब्रह्म चेद्वेदे ।
तस्माच्चेन्न प्रमाधति ।
शरीरे पाप्ने हित्वा ।
सर्वान् कामान् समश्वुत ईति ।
तस्येष एव शारीर आत्मा ।
यः पूर्वस्य ।
तस्माद्वा एतस्माद्विज्ञानमयात् ।
अन्योन्तर आत्माऽऽनन्दमयः ।
तेनैष पूर्णः ।
स वा एष पुरुषविध एव ।
तस्य पुरुषविधाम् ।
अन्वयं पुरुषविधः ।
तस्य प्रिय मेव शिरः ।
मोदो दक्षिणः पक्षः ।
प्रमोद उत्तरः पक्षः ।
आनन्द आत्मा ।
ब्रह्म पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ।।
असन्नेव सा भवति ।
असद्-ब्रह्मेति वेद चेत् ।
अस्ति ब्रह्मोति चेद्वेद ।
सन्त मेदं ततो वेद रिती ।
तस्यैष एव शारीर आत्मा ।
यः पूर्वस्य ।
अथातोनुप्रश्चाः ।
उताविद्वा-नमु लोकं प्रेत्य ।
कश्चन गच्छतो ।
आहो विद्वा-नमुं-लोकं-प्रेत्य ।
कश्चित्समश्नुता ।
सोकामयत् ।
बहुस्यां प्रजायेयोति ।
स तपोतप्यत । स तपस्तप्त्वा ।
ईदगं-सर्व-मसृजत ।
यद्दिदं किञ्च ।
तत्सृष्टा ।
तदेवानुप्राविशत् ।
तदनुप्रविश्य ।
सच्च त्यच्चाभवत् ।
निरुक्तं चानिरुक्तं च ।
निलयन् चानिलयनं च ।
विज्ञानम् च विज्ञानम् च ।
सत्यं चा नृत्यं च सत्य-मभवत् ।
यदिदं किंच ।
तत्सत्यमित्याचक्षते ।
तदप्येष श्लोको भवति ।।

अभयप्रतिष्ठा
असद्वा इद-मग्र आसीत् ।
ततो वै सदजायत् ।
तदात्मानग्ग् स्वय मकुरुत ।
तस्मा-त्तत्सुकृतमुच्यत् इति ।
यद्वै तत्सुकृतम् ।
रसो वै सः ।
रसग्ग् ह्येवायं लब्ध्वाऽऽनन्दी भवति को ह्येवान्यात् कः प्राण्यात् ।
येदेष आकाश आनन्दो न स्यात् ।
एष ह्येवानन्दयाति ।
यदा ह्येवैष एत्स्मिन्नदृष्येनात्म्येनिरुक्तेनिलयेनभयं प्रतिष्ठा विन्दते ।
अथ तस्य भयं भवति ।
तत्तवेव भयं विदुषोमन्वानस्य ।
तदप्येष श्लोको भवति ।।

ब्रह्मानन्दमीमांसा
भीषास्मा-द्वातः पवते ।
भीषोदेति सूर्यः ।
भीषास्मादग्रिश्चेन्द्रश्च ।
मृत्युर्धावति पञ्चम इति ।
सैषाऽऽनन्दस्य मीमागसा भवति ।
युवा स्यात्साधुयुवाध्यायकः ।
आशिष्ठो दृढिष्ठो बलिष्ठः ।
तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् ।
स एको मानुष आनन्दः ।
ते ये शतं मानुषां आनन्दाः ।
स एको मनुष्यगन्धर्वाणामानन्दः।
स एको देवगन्धर्वाणा-मानन्दः ।
श्रोत्रियस्य चाकामहतस्य़ ।
ते ये शतं देवगन्धर्वाणा-मानन्दाः ।
स एकः आजानानां देवाना-मान्न्दः ।
श्रोत्रियस्य चाकामहतस्य ।
ते ये शतमानजानां देवाना मानन्दाः ।
स एकः कर्मदेवानां देवानां-मानन्दः ।
ये कर्मणा देवानापियन्ति ।
श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं कर्मदेवानां देवानामानन्दाः ।
स एक इन्द्रस्यान्न्दः ।
श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं बृहस्पते रानन्दाः ।
स एकः प्रजापते रानन्दाः ।
श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं प्रजापति-रानन्दाः ।
स एको ब्राह्मण आनन्दः ।
श्रोत्रियस्य चाकामहतस्य ।
स यश्चायं पुरुषे ।
यश्चासावादित्ये ।
स एकः ।
स य एववित् ।
असमाल्लोकात्प्रेय ।
एतमन्नमय-मात्मान-मुपसंक्रामति ।
एतं प्राणमय मात्मान-मुपसंक्रामति ।
एतं मनोमय-मात्मान-मुपसंक्रान्ति ।
एतं विज्ञानमय-मात्मान-मुपसंक्रामति ।
एतमानन्द मय-मुपसंक्रामति ।
तदप्येष श्लोको भवति ।।
यतो वाचो निवर्तन्ते ।
अप्राप्य मनसा सह ।
आनन्दं ब्रह्माणो विद्वान् ।
न बिभेति कुतुश्चनेति ।
एतगं ह वा व न तपाति ।
किमहगं साधु नाकरम् ।
किमहं पाप-मकरव-मिति ।
स य एवं विद्वा –नेते आत्मानग्ग् स्पृणुते ।
उभे ह्येवैष एते आत्मानग्ग् स्पृणुते ।
य एवं वेद ।
।। ॐ शान्तिः शान्तिः शान्तिः ।।

तृतीया भृगुवल्ली
ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ।।
 शान्तिः शान्तिः शान्तिः

ब्रह्मजिज्ञासा
भृगु-र्वै वारुणिः ।
वरुणं पितर-मुपससार ।
अधीहि भगवो ब्रह्मेति ।
तस्मा एतत् प्रोवाच ।
अन्नं प्राणं चक्षुश्क्षौत्रं मनो वाचमिति ।
तगं होवाच ।
यतो वा इमानि भूतानि जायन्ते ।
येन जातानि जीवन्ति ।
यत्प्रयन्तभिसविशन्ति ।
तद्विजीज्ञासस्व ।
तद्वेह्योति ।
स तपोतप्यत् ।
स तप-स्तप्त्वा ।।

पञ्चकोशान्तः स्थित-ब्रह्मनिरुपम्
अन्नं ब्रह्मेति व्यजानात् ।
अन्नाद्वेयेव खल्लिमानि भूतानि जायन्ते ।
अन्नेन जातानि जीवन्ति ।
अन्नं प्रयम्त्यभिसविशन्तीति ।
तद्विज्ञाय ।
पुन-रेव वरुण पितर-मुपससार ।
अधीहि भगवो ब्रम्हेति ।
तगं होवाच ।
तपसा ब्रह्म विजिज्ञासस्व ।
तपो ब्रह्मेति ।
स तपोतप्यत् ।
स तप-स्तप्त्वा ।।
प्राणो ब्रह्मेति व्यजानात् ।
अन्नाद्वेयेव खल्विमानि भूतानि जायन्ते ।
प्राणेन जातानि जिवन्ति ।
प्राणं प्रयन्त्यभिसविशन्तीति ।
तद्विज्ञाय ।
पुन-रेव वरुणं पितर-मुपससार ।
अधीहं भगवो ब्रह्मेति ।
तगं होवाच ।
तपसा ब्रह्म विजिज्ञासस्व ।
तपो ब्रह्मेति ।
तपोतप्यत् ।
स तप-स्तप्त्वा ।।
मनो ब्रह्मेति व्यंजनात् ।
विज्ञाना-द्व्योव खल्विमानि भूतानि जायन्ते ।
विज्ञानेन जातानि जीवन्ति ।
विज्ञानं प्रत्यन्तभि संविशन्तीति ।
तद्विज्ञाय ।
पुन-रेव वरुणं पितर-मुपससार ।
अधीहं भगवो ब्रह्मेति ।
तगं होवाच ।
तपसा ब्रह्म विजिज्ञासस्व ।
तपो ब्रह्मेति ।
तपोतप्यत् ।
स तप-स्तप्त्वा ।।
आनन्दो ब्रह्मेति व्यजानात् ।
अन्नाद्वेयेव खल्लिमानि भूतानि जायन्ते ।
आनन्देन जातानि जीवन्ति ।
आनन्दं प्रयम्त्यभिसविशन्तीति ।
सैषा भार्गवी वारुणी विद्या ।
परमे व्योमेन प्रतिष्ठिता य एवं वेद प्रतितिष्ठति ।
अन्नवानन्नादो भवति ।
महान भवति प्रजया पशुभिब्रर्हमवर्चसेनं ।
महान कीर्त्या ।।
अन्नं न परिचक्षीत् ।
तद्वतम् ।
आपो वा अन्नम् ।
ज्योतिरन्नादम् ।
अप्सु ज्योतिः प्रतिष्ठितम् ।
ज्योतिष्यापः प्रतिष्ठिताः ।
तदेत्-दन्न-मन्ने प्रतिष्ठितम् ।
स य एत् दन्न-मन्ने प्रतिष्ठितम् वेद प्रतितिष्ठति ।
अन्नवानन्नादो भवति ।
महान भवति प्रजया पशुभिब्रर्हमवर्चसेनं ।
महान कीर्त्या ।।
अन्नं बहु कुर्वीत् ।
तद्वतम् ।
पृथिवी वा अन्नम् ।
आकाशोन्नादः ।
पृथीव्यामाकाशः प्रतिष्ठितः ।
तदेत्-दन्न-मन्ने प्रतिष्ठितम् ।
स य एत् दन्न-मन्ने वेद प्रतितिष्ठति ।
अन्नवानन्नादो भवति ।
महान भवति प्रजया । पशुभिब्रर्हमवर्चसेनं ।महान कीर्त्या ।।

सदाचारप्रदर्शनम् ।
व्रह्मानन्दानुभव
न कंचन वसतौ प्रत्याचक्षीत् ।
तद्वतम् ।
तस्माद्यया कया च विधया बहन्नं प्राप्नुयात् ।
अराध्यस्मा अन्नमित्याचक्षते ।
एतद्वै मुखतोन्नगं राद्वम् ।
मुखतोस्मा अन्नम् राध्यते ।
एतद्वै मध्योन्नगं राद्वम् ।
मध्तोस्मा अन्नगं राध्यते ।
एतद्वा अन्ततोन्नगं राद्वम् ।
अन्ततोन्नगं राद्वम् ।
अन्ततोस्मा अन्नगं राध्यते ।
य एवं वेद ।
क्षेम् इति वाचि ।
योगक्षेम इति प्राणापानयोः ।
कर्मेति हस्तयोः ।
गति-रीति पादयोः ।
मिमुक्ति-रिति पायौ ।
इति मानुषी-स्समाज्ञाः ।
अथ दैवीः ।
तृप्ति-रिति वृष्टौ ।
बल-मिति विद्युती ।
यश इति पशुषु ।
ज्योतिरिति नक्षत्रेषु ।
प्रजाति-रमृत-मानन्द इत्युपस्थे ।
सर्व मिथ्याकास्थे ।
तत् प्रतिष्ठेतुपासीत् ।
प्रतिष्ठावान् भवति ।
तन्मह इत्युपासीत् ।
महान् भवति ।
तन्मनं इत्युपासीत् ।
मानवान् भवति ।
तन्नम् इत्युपासीत् ।
नम्यन्तेस्मै कामाः ।
तद्वेह्योत्युपासीत् ।
ब्रह्मवान भवति ।
तद्वह्राणः परिमर इत्युपासीत् ।
पर्येणं म्रियन्ते द्विसन्त-स्सपत्नाः ।
परि येप्रिया भ्रातृव्याः ।
स यश्वायं पुरुषे ।
यश्वासा-वादित्ये ।
स एक स य एविवत् ।
अस्मालोकात् प्रेत्य ।
एत्-मन्नमय-मात्मान-मुपसंक्रमस्य ।
एतं विज्ञानमय-मात्मान-मुपसंक्रमस्य ।
एतमानन्दमय-मात्मान्-मुपसंक्रम्य ।
इमान् लोकान् कामान्नी काम-रुप्यमुसंचरम् ।
एतत्साम गायन्नास्ते ।
हा3 वु हा 3 वु हा 3 वु ।
अहमन्न-महमन्न-महमन्नम् ।
अहमन्नादो 2 ह्मन्नादो 2 अहमन्नादः ।
अहग्ग् श्लोककृ-दहग्ग् श्लोककृ-दहग्ग-श्लोककृत् ।
अहमास्मि प्रथमजा ऋता 3 स्य ।
पूर्वं देवेभ्यो अमृतस्य ना 3 भाइ ।
योमा ददाति स इदेव मा 3 वाः ।
अह-मन्नमन्नं-मदन्तमा 3 द्य्मि ।
अहं विश्वं भुवन-मभ्यवाम् ।
सुवर्न ज्योतीः ।
य एबं वेद ।
इत्युपनिषत् ।।
ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ।।
 शान्तिः शान्तिः शान्तिः

No comments:

Post a Comment