Pages

Wednesday, February 22, 2012

Upanishad ।। ऐतरेयोपनिषत् ।।


ऋग्वेदः ऐतरेयद्वितीयारण्यकम्

प्रथमोध्यायः

प्रथमः खण्डः

ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठित-माविरावीर्म एधि वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारम्वत्ववतु मामवतु वक्तारमवतु वक्तारम् ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
ॐ ।।

आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्जन मिषत् ।
स ईक्षत् लोकान्नु सृजा इति।।
स इमाल्लोकानसृजताम्भो मरीचीर्मरमापोदोम्भः परेण दिवं द्यौः प्रतिष्ठान्तारिक्षं मरीचयः ।।
पृथ्वी मरो या अधस्ताता आपः ।।
स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति ।
सोद्भूय एव पुरुषं समुद्वृत्यामूर्च्छयत् ।।

तमभ्यतस्याभितप्तस्य मुखं निरभिद्यत यथाण्डम् मुखाद्वाग्वाचोग्रिर्नासिके निरभिद्येता नासिकाभ्यां प्राणः प्राणाद्वायुरक्षिणी निरभिद्येतामक्षीभ्यां
चक्षुश्चक्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्रद्दिशस्त्वङ्-निरभिद्यत त्वचोलोमानि लोमभ्य ओषधिवनस्पतयो ह्दयं निरभिद्यत ह्दयान्मनो मनश्चन्द्रमा
नाभिर्निरभिद्यत नाभ्या अपानोपानान्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः।।

द्वितीयः खण्डः

ता एता देवताः सृष्टा अस्मिन्ममहत्यर्णवे प्रापतन्तमशनाया-पिपासाभ्यामनववार्जत्ता
एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन् प्रतिष्ठाता अन्नमदामेति ।।
ताभ्यो गामानयत्ता अब्रुवन्न वै नोयमलमिति ।
ताभ्योश्चमानयता अब्रुवन्न वै नोयमलमिति ।।
ताभ्यः पुरुषमानयत्ता अब्रुवन् सुकृतं बतेति पुरुषो वाव सुकृतं ।
ता अब्रवीद्यथायतनं प्रविशतेति ।।
अग्रिर्वाग्भूत्वा मुखं प्राविषद्वाशुः श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशंश्चन्द्रमा मनो भूत्वा ह्दयं प्राविशन्यमृत्युरपानो भूत्वा नाभिप्राविशदापो रेतो भूत्वा शिश्नं प्राविशम् ।।
तमशनायापिपासे अब्रूतामावाभ्यामभिप्रजानीहीति ।
ते अब्रवीदेतास्मेव वां देवतास्वाभजाम्येतासु भागिन्यौ करोमीति ।
तस्माद्यस्मै कस्यै च देवतायै हविर्गृह्यते भागिन्यावेवास्यामशनाया पिपासे भवतः ।।
तृतीयः खण्डः
स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा ईति ।।
सोपोभ्यं तपत्ताभ्योभितप्भ्यो मूर्ति रजायत् ।
या वै सा मूर्तिरजातान्नं वै तत् ।।
तदेनत्सृष्टम् पराङ्त्याजिघांसत्तद्वाचाजिघृक्षन्नाशक्नोद्वाचा ग्रहीत् 
यद्वैनद्वाचाग्रहैष्यद्भिव्याह्रत्य हैवान्नमत्रप्स्यत् ।।
तत्प्राणेनाजिघृक्षत्तन्नाशक्नोत्प्राणेन ग्रहीतुं स यद्वैनत्प्राणेनाग्रहैष्यद्भिप्राण्य
हैवान्नमत्रप्स्यत् ।।
तच्छक्षुषाजिघृश्रत्तन्नाशक्नोच्चक्षुषा ग्रहीतुं स यद्वैनच्चक्षुषाग्रहैष्यद्दृष्टवा
हैवान्नमत्रप्स्यत् ।।
तच्छोत्रेणाजिघृक्षत्तन्नाशक्वोच्छोत्रेण ग्रहीतुं स यद्वैन्नच्छोत्रेणाग्रहैष्यच्छुत्वा
हैवान्नमत्रप्स्यत् ।।
तत्वचाजिघृक्षत्तन्नाशक्नोत्वाचा ग्रहीतुं स यद्वैनत्वचाग्रहैष्यत् स्पृष्ट्रवा
हैवानमत्रप्स्यत्।।
तन्ममसाजिघृक्षत्तन्नाशक्नोन्मनसा ग्रहीतुं स यद्वैनन्मनसाग्रैष्यद्ध्याता
हैवान्नमत्रस्यत् ।।
तच्छिक्षेन्ना जिघृक्षत्तन्नाशक्नोच्छिश्वेन ग्रहीतुं स यद्वैनच्छिश्चेनाग्रहैष्यद्विसृज्य
हैवान्नमत्रप्स्यत् ।।
तदपानेनाजिघृक्षत्तदावयत्सैषोन्नस्य ग्रहो यद्वायुरन्नायुर्वा एष यद्वायुः ।।
स ईक्षत् कथं न्विद् मदृतेस्यादिति स ईक्षत् कतरेण प्रपद्या इति ।
स ईक्षत यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यात् यद्यपानेनाभ्यपानितं
यदि शिश्चेन विश्रृष्टिमथ कोहमिति ।।
स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत् ।
सैषा विदृमिर्नाम द्वास्तदेतन्नान्दनन्तस्य त्रय आवसथास्रयः स्वप्ना अयमावसथो
यमावसथोयमावसथ ईति ।।
स जातो भूतान्यभिव्यैरव्यत् किमिहान्यं वावदिषिदिति ।
स एत्मेव पुरुषम् ब्रह्म ततममपश्यदिद्मदर्शमिती ।।
तस्मादिदन्द्रो नामेदन्दो ह वै नाम तमिदन्द्रंसन्तमिन्द्र ईच्याचक्षते परोक्षैण
परोक्षप्रिया ईव हि देवाः परोक्षप्रिया इव हि देवाः ।।

द्वितीयोध्यायः
प्रथमः खण्डः
ॐ पुरुषे ह वा अयमादितो गर्भो भवति यदेतद्रेत स्तदेतत्सर्वेभ्योङ्गेभ्यस्तेजः
संभूतमात्मन्यवाऽऽत्मानं विभर्ति तद्यदा स्रियां सिञ्चत्यथैनज्जनयति तदस्य
प्रथमं जन्म ।।
तत् स्रिया आत्मभूयं गच्छति यथा स्वमङ्ग तथा तस्मादेनां न
हिनस्ति सास्यैतमात्मानमत्र गतं भावयति ।।
सा भावयित्री भावयितव्या भवति तं यत्कुमारं जन्मोग्रेधिभावयत्यात्मामेव
तद्भावयत्येषा लोकानां सन्तत्या एवं सन्तता हीमे लोकास्तदस्य द्वितायं जन्म ।।
सोस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयतेथास्यायमितर आत्मा कृतकृत्यो
वयोगतः प्रैति स इतः प्रयन्नेव पुनजार्यते तदस्य तृतीयं जन्म ।।
तदुक्तमृषिणा गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा ।
शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति गर्भ एवैतच्छयानो वामदेव
एवमुवाच ।।
स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रमा-मुष्मिन स्व्रर्गे लोके सर्वान्
कामानाप्त्वामृतः समभवत्समभवत् ।।

।।तृतीयोध्यायः ।।
प्रथमः खण्डः
ॐ कोयमात्मेति वयमुपास्महे कतरः स आत्मा येन वा पश्यति येन वा श्रृवोणि येन
वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादुचाल्वादु च विजानाति ।।
यदेतद्ह्रदयं मनश्चैतत् संज्ञामनाज्ञानं विज्ञानं मेधा दृष्टिघृतिर्मनीषा जूतिः स्मृतिः
संकल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ।।
एष ब्रह्यैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महाभूतानि पृथिवी
वायुराकाश आपो ज्योतिषीत्येतानीमानि च क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि
चाण्डजानि च जारुजानि च स्वेदजानि चोदिभज्जानि चाश्वा गावः पुरुषा हस्तिनो
यत्किञ्जेद प्राणिजङ्गमं च पतत्रि च यञ्ज स्थावरं सर्वं तत्प्रज्ञानेत्रम् प्रज्ञाने प्रतिष्ठितं
प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ।।
स एतेन प्रज्ञेनाऽऽत्मनास्माल्लोका-दुत्क्रम्यामुष्मिन स्वर्गे लोके सर्वान्
कामानाप्त्नामृतः समभवत् समभवदित्योम् ।।
ॐ वाङ्गमे मनसि प्रतिष्ठिता मनो मे मा वाचि प्रतिष्ठित माविरावीर्म एधि वेदस्य
म आणीस्थ श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् संदधाम्यृतं वदिष्यामि सत्यं
वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमतु वक्तारम् ।।
।। ॐ शान्तिः शान्तिः शान्तिः।।

1 comment: