।। नक्षत्रसूक्तम् ।।
ॐ ।।
अग्रिर्नः पातु कृत्तिकाः ।
नक्षत्रं देवमिन्द्रियम् ।
इदमासां विचक्षणम् ।
हविरासं जुहोतन ।
यस्य भांति रस्मयो यस्य केतुवः ।
यस्येमा विश्वा भुवनानि सर्वा ।
स कृतिकाभिरभिसवसानः ।
अग्रिर्नो देवस्सुविते दधातु ।।
प्रजापते रोहिणीवेतु पत्नी ।
विश्वरूपा बृहती चित्रभानुः ।
सा नो यज्ञस्य सुविते दधातु ।
यथा जीवेम शरदस्सवीराः ।
रोहिणी देव्युदगात्पुरस्सतात् ।
विश्वा रूपाणि प्रतिमोदमाना ।
प्रजापतिगं हविषा वर्धयन्ती ।
प्रिया देवाना-मुपयातु यज्ञम् ।।
सोमो राजा मृगशीरषेण आगन्न् ।
शिवं नक्षत्रं प्रियमस्य धाम ।
आप्यायमानो बहुधा जनेषु ।
रेतः प्रजा यजमाने दधातु ।
यत्ते नक्षत्रं मृगशीरषमस्ति ।
प्रियगं राजन प्रियतमम प्रियाणाम् ।
तस्मै ते सोम हविषा विधेम ।
शन्न एधि द्धिपदे सं चतुष्पदे ।।
आर्द्रया रूद्रः प्रथमा न एति ।
श्रेष्ठो देवानां पतिरघ्नियानाम् ।
नक्षत्रमस्य हविषा विधेम् ।
मा नः प्रजागम् रीरिष्मोत वीरान् ।
हेती रुद्रस्य परिणो वृणक्तु ।
आर्द्रा नक्षत्रं जुषितागं हविर्नः ।
प्रमुञ्चमानौ दुरितानि विश्वा ।
अपाशगंसन्नुदतामरातिम् ।।
पुनर्नो देव्यदितिस्स्पृणोतु ।
पुनर्वसूनः पुनरेतां यज्ञम् ।
पुनर्नो देवा अभियन्तु सर्वे ।
पुनः पुनर्वो हविषा यजामः ।
एवा न देव्यदितिरनर्वा ।
विश्वस्य भर्त्री जगतः प्रतिष्ठा ।
पुनर्वसु हविषा वर्धयन्ती ।
प्रियं देवाना-मप्येतु पाथः ।।
बृहस्पतिः प्रथमं जायमानः ।
तिष्यं नक्षत्रमभि सम्बभूव ।
श्रेष्ठो देवानाम् पृतनासुजिष्णुः ।
दिशोऽनु सर्वा अभयन्नो अस्तु ।
तिष्यः पुरुस्तादुत मध्यतो नः ।
बृहस्पतिर्नः परिपातु पश्चात् ।
बाधेतान्द्रेषो अभयं कृणुताम् ।
सुवीर्यस्य पतयस्स्याम् ।।
इदगं सर्पेभ्यो हविरस्तु जुष्टम् ।
आश्रेषा येषामनुयन्ति चेतः ।
ये अन्तरिक्षं पृथिवीं क्षियन्ति ।
ते नस्सर्पासो हवमागमिष्ठाः ।
ये न रोचने सूर्यस्यापि सर्पाः ।
ये दिवं देवीमनुसञ्चरन्ति ।
येषामाश्रेषा अनुयन्ति कामम् ।
तेभ्यस्सर्षेभ्यो मधुमज्जुहोमि ।।
उपहूताः पितरो ये मघासु ।
मनोजवसस्सुकृतस्सुकृत्याः ।
ते नो नक्षत्रे हवमागमिष्ठाः ।
स्वधाभिर्यज्ञं प्रयन्तं जुषन्ताम् ।
ये अग्रिदग्धा येऽनिग्रिदग्धाः ।
येऽमुळ्ळोकं पितरः, क्षियन्ति ।
यागश्च विद्य्नयागं उ च न प्रविद्य्न ।
मघासु यज्ञगं सुकृतं जुषन्ताम् ।।
गवां पतिः फल्गुनीनामसि त्वम् ।
तदर्यमन् वरुणमित्र चारुं ।
तं त्वा वयगं सनितारगं सनीनाम् ।
जीवा जीवन्तमुप संवेशेम ।
येनेमा विश्वा भुवनानि सञ्जिता ।
यस्य देवा अनुसंयन्ति चेतः ।
अर्यमा राजाऽजरस्तु विष्मान् ।
फल्गुनीनामृषभो रोरवीति ।।
श्रेष्ठो देवानां भगवो भगासि ।
तत्वा विदुः फल्गुनीस्तस्य वित्तात् ।
अस्मभ्यं क्षत्रमजरगं सुवीर्यम् ।
गोमदश्रवदुपसन्नुदेह ।
भगोह दाता भग इत्प्रदाता ।
भगो देवीः फल्गुनीराविवेश ।
भगेस्येत्त प्रसवं गमेम् ।
यत्र देवैस्सधमादं मदेम ।।
आयातु देवस्स्यवितोपयातु ।
हिरण्येन सुवृता रथेन ।
वहन हत्गम् सुभगं विद्य्मनापसम् ।
प्रयच्छन्तं पपुरिं पुण्यमचछम् ।
हस्तः प्रयच्छ त्वमृतं वसीयः ।
दक्षिणेन प्रतीगृभ्णीन एनत् ।
दाता-रमद्य सविता विदेय ।
यो न हस्ताय प्रसुवाति यज्ञम् ।।
त्वष्टा नक्षत्रमभ्येति चित्राम् ।
सुभगं संसयुवतिगं राचमानाम् ।
निवेशयन्नमृतान्मत्याग्रश्च ।
रूपाणि पिगंसन भुवनानि विश्वा ।
तन्नत्वष्टा तदु चित्रा विचष्टाम् ।
तन्नक्षत्रं भूरिदा अस्तु महस्नम् ।
तन्नः प्रजां वीरवतीगं सुनोतु ।
गोभिर्नो अश्वैस्समनक्तु यज्ञम् ।।
वायुर्नक्षत्रमभ्येति निष्ट्याम् ।
तिग्मश्रृंगो वृषभो रोरुवाणः ।
समीरयन भुवना मातरिश्वा ।
अप द्वेषागंसि नुदतामरातीः ।
तन्नो वायुस्सतदु निष्ट्या श्रृणोतु ।
तन्नक्षत्र भूरिदा अस्तु मह्यम् ।
तन्नो देवासु अनुजानन्तु कामम् ।
यथा तरेम दूरतानि विश्वा ।।
दूरमसमच्छत्रवो यन्तु भीताः।
तदिन्द्राग्री कृणुतां तद्विशाखे ।
तन्नो देवा अनुमदन्तु यज्ञम् ।
पश्चातपुरस्तादभयन्नो अस्तु ।
नक्षत्राणाधिपत्नी विशाखे ।
श्रेष्ठाविन्दाग्री भुवनस्य गोपौ ।
विश्शत्रूनपबाधमानौ ।
अपक्षुधन्नुदतामरातिम् ।।
पूर्णापश्चादुत पूर्णा पुरस्दात् ।
उन्मध्यतः पौर्णमासी जिगाय ।
तस्यां देवा अधिसवसंतः ।
उत्तमे नाक इह मादयन्ताम् ।
पृथ्वी सुवर्चा युवतिः सजोषाः ।
पौर्णमास्युदगाच्छोभमाना ।
आप्यायन्ती दुरतानि विश्वा ।
ऊरूं दुहां यजमानाय यज्ञम् ।।
ऋद्वस्यामं हव्यैर्नमसोपसद्य ।
मित्रं देवं मित्रधेयं नो अस्तु ।
अनूराधान्, हविषा वर्धयन्तः ।
शतं जीवेम् शरदः सवीराः ।
चित्रं नक्षत्रमुदगात्पुरस्तात् ।
अनूराधा स इति यद्वदन्ति ।
तन्मित्र एति पाथिभिर्देवयानैः ।
हिरण्ययै-विततै-रन्तरिक्षे ।।
इन्द्रो ज्येष्ठामनु नक्षत्रमेति ।
यस्मिन् वृत्र वृत्र तूर्ये ततार ।
तस्मिन्वय-ममृतं दुहानाः ।
क्षुधन्तरेम् दुरितिं दुरिष्टम् ।
पुरंदरायम् वृषभाय घृष्णवे ।
अषाढाय सहमानाय मीढूषे ।
इन्द्राय ज्येष्ठा मधुमद्दुहाना ।
उरुं कृणोतु यजमानाय लोकम् ।।
मूलं प्रजां वीरवतीं विदेय ।
पराच्येतु निरऋतिः पराचा ।
गोभिर्नक्षत्रं पशुभिस्समक्तम् ।
अहरभूयाद्यजमानाय मह्यम् ।
अहर्नो अद्य सुविते दधातु ।
मूलं नक्षत्रमिति यद्धदन्ति ।
पराचीं वाचा निरऋतिं नुदामि ।
शिवं प्रजायै शिवमस्तु मह्यम् ।।
या दिव्या आपः पयसा सम्बभूवुः ।
या अन्तिरिक्षः उत्त पाथीर्वियाः ।
यासा –मषाढा अनुयन्ति कामाम् ।
ता न आपः शग्गस्योना भवन्तु ।
याश्व कूप्या याश्व नाद्यास्समुद्रियाः ।
याश्च वैशन्तीरुत प्रासचीर्याः ।
यासामषाढा मधुं भक्षयन्ति।
ता न आपः शग्ग् स्योना भवन्तु ।।
तन्नो विश्वे उप्प श्रृण्वन्तु देवाः ।
तदषाढा अभिसयन्तु यज्ञम् ।
तन्नक्षत्रम् प्रथतां पशुभ्यः
कृषिर्वृष्टृयर्जमानाय कल्पताम् ।
शुभ्राः कन्या युवतवस्सुपेशसः ।
कर्मकृत-स्सुकृतो वीर्यावतीः ।
विश्वान देवान्, हविषा वर्धयन्तीः ।
अषाढाः काममुपयान्तु यज्ञम् ।।
यस्मिन् ब्रह्म्याभ्यजयत्सर्वेमेतत् ।
अमूञ्च लोक-मिदमूच सर्वम् ।
तन्नो नक्षत्रृमभिजिद्विजित्यं ।
य़ श्रियं दधात्वह्रणीयाम् ।
उभौ लोकौ ब्रह्माणा सञ्चितेमो ।
तन्नो नक्षत्रमभिजिद्विचष्टाम् ।
तस्मिनवं पृतनास्सञ्जेयेम् ।
तन्नो देवासो अनुजानन्तु कामम् ।।
श्रृण्वन्ति श्रोणा-ममृतस्य गोपाम् ।
पुण्यामस्या उपश्रृणोमि वाचम् ।
महीं देवीं विष्णुपत्नी-मजूर्याम् ।
प्रतीची मेनागं हविषा यजामः ।
त्रेधा विष्णुं-रुरुगायो विचक्रमे ।
महीं दिवं पृथ्वी-मन्तरिक्षम् ।
तच्छ्रोणैतिश्रव-इच्छमाना ।
पुण्यग्ग् श्लोकं यजमानाय कृण्वती ।।
अष्टौ देवा वसवस्सोम्यासः ।
चतस्रो देवी-रतराः श्रविष्ठाः ।
ते यज्ञं पान्तु रजसः पुरस्तात् ।
संवत्सरीणं-ममृतग्गं स्वस्ति ।
यज्ञं नः पान्तु वसवः पुरस्तात् ।
दक्षिणतोऽभियन्तु श्रविष्ठाः ।
पुण्यन्नक्षत्रमभि संविशाम ।
मा नो अराति-रघशगंसाऽगन्न ।।
क्षत्रस्य राजा वरुणोऽधिराजः ।
नक्षत्राणागं शतभिषग्वसिष्ठः ।
तौ देवेभ्यः कृणुतो दीर्घमायुः ।
शतगं सहस्रा भेषजानि धत्तः ।
यज्ञन्नो राजा वरुण उपयातु ।
तन्नो विश्वे अभि संयन्तु देवाः ।
तन्नो नक्षत्रगं शतभिषग्जुषाणम् ।
दीर्घमायुः प्रतिरद्भेषजानि ।।
अज एक पादु दगात्पुरस्तात् ।
विश्वा भूता प्रति मोदमानः ।
तस्य देवाः प्रसवं यन्ति सर्वे ।
प्रोष्ठपदासो अमृतस्य गोपाः ।
विभ्राजमानस्यमिधा न उग्रः ।
आऽन्तरिक्षमरुहदगान्धाम् ।
तगं सूर्य- देव-मजमेकपादम् ।
प्रोष्ठपदासो अनुयन्ति सर्वे ।।
अहिर्बुधिन्यः प्रथमा न एति ।
श्रेष्ठो देवानामुत मानुषाणाम् ।
तं ब्राह्मणास्सोमपास्सोभ्यासः ।
प्रोष्ठपदासो अभिरक्षंन्ति सर्वे ।
चत्वार एकमभि कर्म देवाः ।
प्रोष्ठपदा स इति यान्, वदन्ति ।
ते बुध्नियं परिषद्यग्गं स्तुवन्तः ।
अहिगं रक्षन्ति नमसोपसद्यं ।।
पूषा रेवत्यन्वेति पन्थाम् ।
पुष्टिपती पशुपा वाजवस्यत्यौ ।
इमानि हव्या प्रयता जुषाणा ।
सुगैर्नो यानैरुपयताम् यज्ञम् ।
क्षुद्रान पशून रक्षतु रेवती नः ।
गावो नो अश्र्वागं अन्वेतु पूषा ।
अन्नगं रक्षन्तौ बहुधा विरुपम् ।
वाजगम् सनुतां यजमानाय यज्ञम् ।।
तदश्विनावश्वयुजोपयाताम् ।
शुभङ्गमिष्ठौ सुयमेभिरश्वैः ।
स्वं नक्षत्रगं हविषा यजन्तौ ।
मध्वासम्पृक्तौ यजुषा समक्तौ ।
यौ देवानां भिषजौ हव्यवाहौ ।
विश्वस्य दूता-वमृतस्य गोपौ ।
तौ नक्षत्रं जुजुषाणोपयाताम् ।
नमोभिभ्याम् कुणुमोश्वयुग्भ्याम् ।।
अप पाप्मानं भरणीर्भरन्तु ।
तद्यमो राजा भगवान् विचष्टाम् ।
लोकस्य राजा महतो महान्, हि ।
सुगं नः पन्थामभयम् कृणोतु ।
यस्मिन्नक्षत्रे यम एति राजा ।
यस्मिन्नेन-मभ्यषिचन्त देवाः ।
तदस्य चित्रगं हविषा यजाम ।
अप पाप्मानं भरणीर्भरन्तु ।।
निवेशनी सङ्गमनी वसूना
विश्वा रुपाणि वसून्यावेशयन्ती ।
सहस्र-पोषगं सुभगा रराणा
सा न आगन्वर्चसा संविदाना ।
यत्ते देवा अदधुर्भागधेयममावास्ये
संवसन्तो महित्वा ।
सा नो यज्ञं पिपृहि विश्ववारे
रयिन्नो धेहि सुभगे सुवीरम् ।।
।। ॐ शान्तिः शान्तिः शान्तिः ।।
supreme new york
ReplyDeletesupreme clothing
golden goose sale
kobe sneakers
curry shoes
a bathing ape
golden goose outlet
off white jordan 1
yeezy shoes
moncler jackets
replica bags cheap click this over here now v3t44x2u37 replica kipling bags company website v4k74f4b00 louis vuitton replica replica bags online shopping india replica bags dubai replica gucci s1n63c3h21 replica bags for sale
ReplyDelete